OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 29, 2024

 वैट् हौस् मध्ये दीपावली सन्दर्भे ‘दीया दीपं’ प्रज्वाल्य जो बाइडनेन उत्सवस्य समारम्भः कृतः।

   वैट् हौस् मध्ये दीपावली सन्दर्भे उत्सवस्य प्रारम्भाय राष्ट्रपतिः जो बैडनः सम्मुखे आगतवान्। सोमवासरे सायंकाले प्रथममहिला जिल् बैडनेन सह मिलित्वा ‘ब्लू रूम’ मध्ये 'दिया दीपं' प्रज्वाल्य उत्सवस्य आरम्भः कृतः। अनेके भारतीय-अमेरिकीजनाः अपि उत्सवस्य साक्षिभूताः आसन्।

    दीपावली दिवसे भारतीय-अमेरिकीजनानां स्वागतं बैडनः करिष्यति इति सूचितमस्ति। बाइडेनस्य अमुखप्रवचनमध्ये  नौसेनायाः निवृत्ता अध्यक्षा, भारतीयवंशजा  सूनिता विलियम्स् महोदयायाः वीडियो संदेशः भविष्यति इत्यपि सूचितम्। अन्तरराष्ट्रिय अन्तरिक्षकेंद्रात् सूनिता विलियम्सः दीपावलीदिनसंदर्भे शुभकामनाः प्रेषयिष्यति।