OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 26, 2024

 भारतीयानां कृते इदानीं कष्टमेव; कानडादेशः प्रवासं नियन्त्रणं कर्तुं सज्जः।

   कानडादेशः प्रवाससंख्यायाः नियन्त्रणाय प्रयत्नं करोति। २०२५ तः प्रवासनकार्यक्रमाणां संख्या न्यूनीकरिष्यते इति प्रधानमन्त्री जस्टिन् ट्रूडो सूचितवान्। एषः निर्णयः कानडादेशं प्रति प्रवासार्थं सज्जानां भारतीयानां आशाः न्यूनीकरोति।

    कानडायाः नवीनकार्यक्रमेण भारतेन सह अन्येषां राष्ट्राणां प्रवासीजनानां कृते स्थिरनिवासं प्राप्तुं तथा कर्मलाभं

लब्धुं कठिनता स्यात्। २०२५ तः नूतनरूपेण स्थिरनिवासप्रमाणपत्रं प्राप्तुम् इच्छतां संख्या ३९५,००० इति परिमिता भविष्यति इति रोयटर्स वार्तानुसारेण ज्ञायते। अपि च, तस्मिन् वर्षे प्रवासिनां संख्या ३००००० तः ३०००० पर्यन्तं न्यूनीकरिष्यते इति कानडायाः सर्वकारवृन्दैः उक्तम्