OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 23, 2024

 ब्रिक्स् उच्चशिखरसम्मेलनम् आरब्धम्। 

नरेन्द्रमोदिने लब्धं स्वीकरणम्। 

कसानः> विकस्वरराष्ट्राणां संघटनस्य ब्रिक्स् नामकस्य १६ तमं उच्चशिखरसम्मेलनं रषियाराष्ट्रस्थे कसाननगरे ह्यः समारब्धम्। रषियाराष्ट्रपतिना व्लादिमिर पुटिनेन आतिथ्यं क्रियमाणे सम्मेलने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी, चीनस्य राष्ट्रपतिः षि जिन् पिङ् इत्यादयः राष्ट्रनेतारः गतदिने कसानं प्राप्तवन्तः। ब्रिक्स् अङ्गराष्ट्राणि विना ३६ राष्ट्राणां प्रतिनिधयोSपि अस्मिन्नुच्चशिखरमेलने भागं स्वीकुर्वन्ति। 

  युक्रेनप्रकरणे रषियाविरुद्धप्रक्रमं स्वीक्रियमाणः यू एन् संस्थायाः कार्यकर्ताप्रमुखः अन्टोणियो गुटरसः अपि उच्चशिखरं प्राप्स्यति। 'आगोलविकासाय सुरक्षायै च बहुमुखवादप्रबलीकरणम्' इति अस्य उच्चशिखरमेलनस्य सारांशः।