OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 30, 2024

 संघर्षाणां शतकम् अतिक्रम्य सः सखः वि. एस्. अच्युतानन्दः अद्य एकाधिकं शततमं जन्मदिनं प्राप्नोति।

    केरलराजनीत्याः महायोद्धा, सखः वि. एस्. अच्युतानन्दः अद्य एकाधिकशततमं जन्मदिनम् आचरति। संघर्षाणां शतकम् अतिक्रम्य अपि सः समाजाय प्रेरणास्रोतो भूत्वा तिष्ठति। यद्यपि सङ्घर्षे रूपसाकारो भवेत्, सः वि. एस्. अच्युतानन्द एव। तेन प्राचीन-ग्रामाधिपानां पुरतः स्वसाहसं प्रदर्श्य मुष्ट्युद्धरणं कृत्वा समाजोद्धारणाय समागतः आसीत् सः।हर्षध्वनिं कृत्वा अच्युतानन्दस्य नेतृत्वे जनाः संग्रामाय चलिताः।

    १९८० तः १९९२ पर्यन्तं द्वादशवर्षाणि सः सी. पी. आई. (एम्) दलस्य राज्यसचिवरूपेण सेवारत आसीत्। ८३ तमवयसि केरळराज्यस्य मुख्यमन्त्री अपि अभवत्। अद्य तु सः विश्रान्तजीवनं नयन् अस्ति।