OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 21, 2024

 जम्मूकश्मीरराज्ये आतङ्कवादिनः आक्रमणम्। सप्तजनाः हताः।

   जम्मूकश्मीरे भीकराक्रमणम् अभवत्। सप्तजनाः हताः, तेषु एकः वैद्यः अन्यराज्यस्य षट् कर्मकराः च सन्ति। साङ्गणं क्षेत्रे निर्मिते एकस्मिन् सुरङ्गस्य समीपे आक्रमणम् अभवत्। जम्मूकश्मीरस्य मुख्यमन्त्री उमर अब्दुल्लः तथा केन्द्रगृहमन्त्री अमितशाहः अपि भीकराक्रमणं निन्दितवन्तौ।

      सैनिकैः आक्रमणानि विरुध्य प्रक्रमाः स्वीकृताः। प्रदेशः सैनिकैः परिवृतः अस्ति, अन्वेषणं प्रारब्धं च। आक्रमणं द्वाभ्यां भीकराभ्यामेव कृतमिति सूच्यते। प्राथमिकनिरीक्षणेन ज्ञातम् यत् तस्यां क्रियायां पाकिस्थानीयाः आतङ्किनः विद्यमानाः आसन्। आक्रमणकाले द्वौ जनौ घटनास्थले एव मृत्युमुपगतौ। एकस्य वैय्यक्तिक-स्वामित्वे प्रचलिते सुरङ्गनिर्माणस्थले आक्रमणमभवत्।