OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 10, 2024

 वसन्ति एकस्मिन् गृहसमुच्चये २०००० जनाः।

    चीनदेशे क्वियाञ्जियाङ् शताब्दिनगर्यां रीजेण्ट् अन्ताराष्ट्रीयः गृहसमुच्चयः अस्ति। जगति सर्वाधिक-जनसंख्यानाम् आवसत्वेन प्रसिद्धः विशालतमः गृहसमुच्चयः भवति अयम्।

   अस्य वैशिष्ट्यं यत् एतस्मिन् चतुस्त्रिंशत् तलेषु सहस्रशः उच्चस्तरीयानि आवासीयानि पत्तनानि सन्ति, अस्मिन् द्विसहस्राधिकाः जनाः निवसन्ति च। २६००० 'स्क्वयर्मीट'र्मिते स्थले ६७५ पादमिते 'S' आकारेण निर्मितं भवति इदम् । एतत् प्रथमतः आतिथ्यनिकेतनस्य कृते निर्मितम् आसीत् , परं पश्चात् महान्तः आवासीयाः 'अपार्टमेण्ट्' इति रूपेण परिवर्तितः। एतस्मिन् महाभवने प्रायः ३०,००० जनेभ्यः वस्तुं शक्यते।