OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 15, 2024

 राजनैतिकलाभाय भारतस्य अपकीर्तिं कर्तुं योजनाबद्धः प्रयासः।

 कनेडीयायाः प्रधानमन्त्रिणं प्रति  विदेशकार्यमंत्रालयेन तीव्रविमर्शः कृतः।

   कनेडीयायाः प्रधानमन्त्री जस्टिन् ट्रूडो इत्यस्मिन् प्रति तीव्रविमर्शं विदेशकार्य-मंत्रालयेन कृतम्। भारतस्य विषये  ट्रूडो स्वस्य राजनैतिकतायाः भागतया आरोपणं कृतवान् , एषः आरोपः  भारतस्य राजनीतिके विषयेषु तस्य हस्तक्षेपं सूचयति। राजनीतिकलाभाय भारतस्य अपकीर्तिं कर्तुं कानडायायाः प्रधानमन्त्रिणः योजनाबद्धं तन्त्रम् अस्ति इति विदेशकार्य मंत्रालयेन आरोपितम्। निज्जरस्य हत्याकाण्डस्य अन्वेषणे भारतीय उच्चायुक्तस्य तथा दूतियुक्तानाम् अपि व्यक्तिगतं चित्तम्  अस्ति इति  कानडायाः आरोपः भारतं निराकरोति।