OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 23, 2024

 डाना चक्रवातः - ओडीषा पश्चिमवंगेन सह जनान् अपनयति। 

भुवनेश्वरं / कोल्कोत्ता> बङ्गालसमुद्रान्तराले रूपीकृतः डानानामकः चक्रवातः राक्षसीयभावेन तीरं स्पृक्ष्यतीति पर्यावरणप्रवचनमस्तीत्यतः ओडीषा तथा पश्चिमवंगश्च तीरस्थान् जनान् सुरक्षितस्थानं नयति। 

  पुरी सागरद्वीपयोर्मध्ये वातः  प्रबलं वास्यतीति पर्यावरणविभागस्य पूर्वसूचना। चक्रवातस्य स्वाधीनतया अतिवृष्टिरपि प्रवचिता। 

  ओडीशायां ८०० समाश्वासकेन्द्राणि उद्घाटितानि। शैक्षिकसंस्थानां विरामः प्रख्यापिता। पश्चिमवंगमपि  चक्रवातदुष्प्रभावं प्रतिरोद्धुं सुसज्जमिति राज्यमुख्यमन्त्रिणी ममता बानर्जी न्यवेदयत्। तत्रापि सप्त जनपदेषु शैक्षिकसंस्थानां विरामः प्रख्यापिता।