OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 11, 2024

 साहित्यनोबेल् पुरस्कारः हन् काङ् वर्यायै। 


स्टोक् होम्> अस्य वर्षस्य साहित्यनोबेल् पुरस्काराय हन् काङ् नामिका दक्षिणकोरियन् साहित्यकारी  चिता। इदंप्रथममेव साहित्यस्य नोबेल् पुरस्कारः दक्षिणकोरियां प्राप्तः। 

    मानसिक-शारीरिकपीडयोर्मिथः व्यवहारस्य अगाधतां मार्गमाणाः रचनाः भवन्ति हन् वर्यायाः इति निरीक्षकाणाम् अभिमतम्। ५३ वयस्का सा १९३३ तमे वर्षे कवितारचनया साहित्यमण्डलं प्रविष्टा। ततः कथाः आख्यायिकाश्च व्यरचयत्। २०१६ तमे वर्षे 'The Vegetarian' इत्याख्यायिकया बुक्कर् पुरस्कारं प्राप्तवती। "Human Acts", " We do not do it", "The White book" इत्याद्यः तस्याः प्रमुखाः आख्यायिकाः भवन्ति।