OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 10, 2024

 भारतीयानां खाद्यसंस्कृतिः वातावरणानुकूला भवति। अर्जन्टीनायाः तथा अमेरिक्कायाः  खाद्यशैली तु अत्यधिकं प्रतिकूला।

    भारतीयानां आहारोपभोगः वातावरणानुकूलः भवति इति डब्लियू. डब्लियू. एफ् संस्थायाः (world Vide fund for nature) प्रतिवेदनम्। जि २० राष्ट्राणां मध्ये अत्यधिकां परिस्थित्यनुकूलां  आहाररीतिम् अनुवर्तमानं राष्ट्रं भवति भारतम् इति गतदिने प्रकाशिते लिविङ् प्लानट्ट् प्रतिवेदने सूचितमस्ति। परिस्थित्यनुकूलः आहारोपभोगः हरितगृहवातकबहिर्गमनं निवारयति। एतत् तु वातावरणानुकूलां अवस्थां जनयितुं प्रभवति इत्यपि प्रतिवेदने सूचितम् अस्ति।