OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 16, 2024

 षाङ् हाय् सहयोग उच्चशिबिरं 

भारतविदेशकार्यमन्त्री पाकिस्थानं प्राप्तः। 

जयशङ्कराय पाकिस्थाने लब्धं स्वीकरणम्। 

इस्लामबादः>  षाङ् हाय् सहयोग उच्चशिबिरे भागं कर्तुं भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः गतदिने सायं पाकिस्थानस्य राजधानीम् इस्लामबादं प्राप्तवान्। अष्ट वर्षेभ्यः अनन्तरमेव भारतस्य विदेशकार्यमन्त्री पाकिस्थानं सन्दर्शयति। 

  मङ्गलवासरे सायं काले षाङ् हाय् अङ्गराष्ट्राणां प्रतिनिधिभ्यः पाकिस्थानप्रधानमन्त्रिणा षहबास् शरीफेन  आयोजिते  सौहृदसत्कारे जयशङ्करः भागं स्वीकृतवान्। षाङ् हाय् सहयोगसख्यस्य प्रवर्तनेषु सजीवभागभागित्वं भारतेन अनुवर्तिष्यते इति जयशङ्करेण निगदितम्।