OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 26, 2024

 उत्सवेषु गजमेला- मानवानां धार्ष्ट्यमिति उच्चन्यायालयः। 

तिमिङ्गलः स्थलजीवी न इत्येतत् तेषां भाग्यमेव।

    उत्सवेषु गजान् अलङ्कृत्य उन्नयनं धार्ष्ट्यमेव इति केरलस्य उच्चन्यायालयेन निगदितम्। पादौ प्रबध्य पञ्च निमेषमपि स्थातुं मानवाः प्रभवन्ति वा? पुरतो विद्यमानौ पादौ प्रबध्य होराः यावत् स्थितानां गजानाम् अवस्था का इति भावयितुम् अपि मानवाः न प्रभवन्ति इति केरलस्य उच्चन्यायालयेन वाग्भिः उवाच। जन्तून् विरुध्य अतिक्रमाः प्रवर्धमाणे सन्दर्भे न्यायालयेन स्वयं स्वीकृतस्य प्रकरणस्य गणनावसरे कृतः परामर्शोऽयम् ।