OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 29, 2024

 न्याय. पुट्टस्वामी दिवंगतः। 


बङ्गलुरु> निजीयतां मौलिकाधिकारं कारयितुं अक्षीणं प्रयतितवान् न्याय. के एस् पुट्टस्वामी दिवंगतः। कर्णाटक उच्चन्यायालये न्यायाधिपः आसीत्। सोमवासरे बङ्गलुरुस्थे स्वभवने आसीत् तस्यान्त्यम्। ९८ वयस्क आसीत्। 

   आधार् परियोजनायाः नीतिन्यायसंहितासाधुतां परिपृच्छ्य तेन कृतं नियमयुद्धं राष्ट्रीयस्तरे श्रद्धामलभत। एषां परियोजनां विरुध्य समराह्वानं कृतवान् प्रथमव्यक्तिरासीत् न्याय. पुट्टस्वामी।