OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 21, 2026

 हूति- सौदिसंघर्षः प्रोज्वलति। 

रियादः> शाश्वतपरिहारं विना इरानयुद्धे अनुवर्तमाने, पश्चिमेष्याम् आशङ्काकुलं कुर्वन् सौदी अरेबियायाः येमनस्थे हूतिविमतयोः च संघर्षः प्रोज्वलति। रक्तसमुद्रतटस्थः तन्त्रप्रधाननौकाश्रयः होदैदा नामकः अपसर्तव्यः इति सौदीसख्यसेनया पूर्वसूचना घोषिता। अनेन मण्डले नूतनसैनिकप्रक्रमस्य आशङ्का वर्धिता।

  यमने हूतिनियन्त्रणप्रदेशान् प्रति भोज्य-मानुषिकसाह्यादिकं नीयमानं प्रमुखमार्गकवाटं भवति होदैदा महानौकाश्रयः।  यदि नौकाश्रयः आक्रमिष्यते तर्हि जिद्दासहितान् सौद्याः सर्वान् नौकाश्रयान् आक्रमिष्यतीति हूतिविभागः उदघोषयत्।  

  सौद्याः व्योममण्डलं अरक्षितमिति सूचनया रियादः, दमामः इत्येतौ विमाननिलयौ अल्पकालिकतया पिहितौ।