OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, October 6, 2025

 नेपाले जलोपप्लवः, मृत्प्रपातः। 

४० मरणानि। 

काठ्मण्डुः> नेपालराष्ट्रस्य पूर्वस्मिन् प्रदेशे दुरापन्नायाः भीषणवृष्ट्याः प्रभावेण ४० जनाः अकालमृत्युं प्राप्ताः। कोशि प्रदेशे जाते प्रलये भूस्खलने च ३७ जनाः मृताः।   शनिवासरस्य  रात्रेरारभ्य प्रवृत्ते वर्षणे आसीत् दुरन्तः। पञ्च जनाः तिरोभूताः इति सूच्यते। 

  रक्षाप्रवर्तनाय नेपालसेना दुरन्तनिवारणविभागाश्च प्रवर्तननिरताः सन्ति। काठ्मण्डोः अधित्यकायां गमनागमननियन्त्रणं विधत्तम्। बागमती, राप्ती नदीद्वयस्य तटेषु अतीवजाग्रता उद्घोषिता।

 कासशमनमध्वौषधोपयोगेन बालकमृत्यु‌ः।

मध्यप्रदेशे राजस्थाने च औषधं निरुद्धम्। 

नवदिल्ली> कासरोगाय 'सिरप्' [Syrup] इति मध्वौषधस्य सेवया वृक्कावयवस्य विनाशेन कतिपयबालकाः मृताः इति वृत्तान्तस्य आधारे विवादौषधानां निर्माणशालासु केन्द्र स्वास्थ्यमन्त्रालयस्य त्वरितपरिशोधना सम्पन्ना। षट् राज्येषु कासमध्वौषधानि 'आन्टी बयोटिक्' औषधानि चाभिव्याप्य १९ अधिकरणानि औषधानि यत्र निर्मीयन्ते तत्र आसीत् CDSCO (Central Drugs Standard Control Organization) संस्थायाः परिशोधनं सम्पन्नम्। 

  मध्यप्रदेशे ९, राजस्थाने त्रयः च शिशवः कास सिरप् औषधसेवानन्तरं जातेन अस्वास्थ्येन मृत्युमुपगताः इति वार्ता आगता। राज्यद्वये च मृत्युहेतुभूतस्य औषधस्य निर्माणं निरुद्धम्। तमिलनाटे कृते परिशोधने विषमालिन्यान्तर्भूतस्य औषधस्य निर्माणं निरुद्धम्। केरले च 'कोल्ड् रिफ्' सिरप् औषधस्य विक्रयः निरुद्धः।

 शुभमान गिलः भारतस्य एकदिनगणस्यापि नायकः।

शुभमान गिलः। 

मुंबई> क्रिकट् निकषगणस्य नायकस्थानेन सह एकदिनक्रिकट् गणस्य नायकरूपेणापि शुभमान गिलः नियुक्तः। रोहित शर्मणः स्थाने अस्ति गिलस्य नायकपदम्। अतीते मेय्मासे गिलः भारतस्य क्रिकट्निकषगणस्य नायकत्वेन नियुक्तः आसीत्। 

  श्रेयस् अय्यरः उपनायकः भविष्यति। रोहित शर्मा, विराट कोली च क्रिकट्निकषगणे अन्तर्भूतौ।

Sunday, October 5, 2025

 राजनीतिः या अपि भवतु, यदि राष्ट्रं आनन्देत् तदेव पर्याप्तम् 

    – इत्युक्त्या डॉ॰ शशि तरूरः अप्रत्यक्षतया कांग्रेस्-दलात् उद्भूतविमर्शनानां प्रत्युत्तरं दत्तवान्।

   केरलराज्ये समुपस्थितः डॉ॰ शशि तरूरः, “राजनीतिः या अपि भवतु, राष्ट्रम् आनन्देत् तदेव मम मतम्” इति उक्तवान्। सः जवाहरलाल नेहरोः वचांसि उद्धृत्य स्वस्य अभिप्रायं प्रकाशयामास।


श्रीश्रीनारायणगुरोः उक्तिं स्मारयन् सः अवोचत् – “ धर्मः कीदृशोऽपि वा भवतु, यदि मनुष्यः आनन्देत् तदेव पर्याप्तम् "। तथैव अहं वदामि – राजनीतिः या अपि भवतु, यदि राष्ट्रं आनन्देत् तदेव मम विश्वासः। एतं विश्वासं धारयित्वा एव राजकार्यम् आचरामि” इति सः सार्वजनिके कार्यक्रमे अवदत्।


तस्मिन् एव भाषणे सः नेहरोः प्रसिद्धं वाक्यमपि उद्धृतवान् –

“यदि भारतः म्रियेत्, तदानीं को वा जीवेत्?” इति।

     प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति स्वस्य प्रशंसावाक्यानां कारणात्, शशि तरूरः स्वदलीयेषु जनेषु आलोचनायाः विषयः अभवत्। तेषां किंवदन्तीनां प्रत्युत्तररूपेण सः उक्तवान् यत् –

“मम सर्वे अभिप्रायाः, यथा ‘ऑपरेशन् सिन्दूर’ इत्यस्मिन्, अथवा राष्ट्रस्य आर्थिकविषयेषु चर्चासु, राष्ट्रस्य हितमेव मम आधारविषयः इति ॥

 नेपाले जलप्रलयः ४७, मरणानि।

  हिमालयप्रान्तेषु पूर्वोत्तर-राज्येषु च जलप्रलयः अभवत्। नव जनाः अप्रत्यक्षाः। डार्जिलिङ् प्रदेशे १७ जनाः मृताः। विविधप्रदेशेषु राजमार्गाः ग्राममार्गाः च भग्नाः। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी नेपालाय साहाय्यं वाग्दत्तम्।

 मोहनलालाय राज्यसर्वकारस्य समादरः।

रेरलप्रशासनस्य उपहारं मुख्यमन्त्री पिणरायि विजयः मोहनलालाय ददाति। 

 

अनन्तपुरी> फाल्के पुरस्कारोपलब्धः कैरल्याः महानटः मोहनलालः केरलसर्वकारेण समादृतः। शनिवासरे सायं अनन्तपुर्यां 'सेन्ट्रल् स्टेडियं' क्रीडाङ्कणे समायोजिते प्रौढगम्भीरे कार्यक्रमे मुख्यमन्त्री पिणरायि विजयः मोहन् लालं सुवर्णवसनधारणेन उपहारसमर्पणेन च समादृतवान्। मलयालचलच्चित्रात् प्रथम फाल्केपुरस्कृतः अडूर् गोपालकृष्णः मुख्यातिथिरभूत्।

  चलने उपवेशने दर्शने शरीरभाषायां च मोहनलाल इव केरलीयान् प्रभावितः अपरः अभिनेता नास्तीति मुख्यमन्त्रिणा प्रकीर्तितम्। कविना प्रभावर्मणा विरचिता 'काव्यपत्रम्' इति काव्यप्रशंसा अपि लालाय समर्पिता। शिक्षामन्त्री वि शिवन्कुट्टिः समारोहे अध्यक्षः अभवत्। मन्त्रिणः सजि चेरियान्, के एन् बाल गोपाल,जि आर् अनिलः, राजनैतिकदलनेतारः, सांस्कृतिकप्रमुखाः, चलच्चित्रमण्डलात् प्रमुखाश्च कार्यक्रमेSस्मिन् भागं गृहीतवन्तः।

 पाकिस्थानस्य युद्धविमानाय रष्यस्य विमानयन्त्रं ?

    मोस्को> पाकिस्थानस्य JF युद्धविमानाय रष्यः विमानयन्त्रं दातुं पार्यालोच्यते इति प्रतिवेदनं रष्येन निरस्तम् । तादृशः कोऽपि निर्णयः नास्ति इति रष्यः अवदत्। प्रदिवेदनमिदं युक्तिरहितः इति च रष्यस्य उन्नताधिकारिणः  सूचयन्ति। रष्य-भारतयोः साह्यकरणस्य नाशम् उद्दिश्य भवति इदं प्रतिवेदनम् इत्यपि अधिकारिणः अवदन्।

Saturday, October 4, 2025

 संगमग्राममाधवमधिकृत्य संगोष्ठी।

कोच्ची> विश्रुतं पुरातनकालीनं भारतीयगणित-ज्योतिशास्त्रज्ञं संगमग्राममाधवमधिकृत्य ओक्टोबरमासस्य षष्ठे दिने संगोष्ठी प्रचलिष्यति। कोच्ची समीपे पिरवं वेलियनाट् इत्यत्र वर्तमाने आदिशङ्करनिलयस्थे 'चिन्मया इन्टर्नाशणल् फौण्डेशन्' स्थाने अस्ति संगोष्ठी। 

  सामवेदाचार्यः तोट्टं शिवकरन् नम्पूतिरिः संगोष्ठ्याः उद्घाटनं करिष्यति। वि पि एन् नम्पूतिरिः मुख्यभाषणं करिष्यति।

 भारतस्य निर्दाक्षिण्यसूचना 

मानचित्रे द्रष्टव्यं चेत् पाकिस्थानेन भीकरवादः समापयितव्यः। 

नवदिल्ली> भारतेन पाकिस्थानराष्ट्रं प्रबोधितं यत्  विश्वमानचित्रे स्थानमास्थापयितव्यं चेत् स्वभूमौ भीकरवादस्य प्रोत्साहनं तद्राष्ट्रेण समापयितव्यम्। राजस्थाने अनुपगढे सैनिकान् सम्बुध्यमानः भारतस्य  स्थलसेनाधिपः उपेन्द्र द्विवेदिवर्यः भारतस्याभिमतं सुस्पष्टमवदत्। भविष्ये संघर्षः जायते चेत् 'ओपरेषन् सिन्दूरे' भारतेन प्रकटितं संयमनं न भवेदिति सः निश्शङ्कमुक्तवान्।

 भारतीयपत्रकारकुलपतिः

टि जे एस् जोर्जः स्वर्गतः।


बङ्गलुरु> भारते पत्रकारमण्डलस्य कुलपतिः इति विशेष्यमानः टि जे एस् जोर्जः [Thayyil Jacob Sony George] बङ्गलुरु मध्ये निजीयातुरालये स्वर्गीयोSभवत्। ९७ वयस्कः सः वार्धक्यसहजास्वास्थ्येन सप्ताहं यावत् परिचर्यायामासीत्। गुरुवासरे रात्रौ सञ्जातः हृदयाघात एव मरणकारणमिति सूच्यते। 

   निर्भयपत्रकारप्रवर्तनस्य मुखमुद्रा आसीत् टि जे एस् जोर्जः। भारते विदेशे च अर्धशतकाधिककालं वृत्तान्तपत्रकाररूपेण उज्वलितः सः लेखनेन पादमुद्रया च उन्नतशीर्षः आसीत्। 'दि न्यू इन्डियन् एक्स्प्रेस्' इति पत्रिकायां Point of view नामिका वारान्तपरम्परा अनुस्यूततया २५ वर्षाणि यावत् तेन लिखिता। २०११ तमे वर्षे राष्ट्रस्य पद्मभूषणबहुमत्या सः समादृतः आसीत्।

 रविवासरस्य निशायाः पूर्वं सन्धिः अङ्गीकर्तव्यः। 

हमासं प्रति ट्रम्पस्य अन्त्यादेशः। 

वाषिङ्टणः> वर्षद्वयातीतस्य  गासायुद्धस्य परिसमाप्तये आत्मना उन्नीतः २० अधिकरणात्मिका शान्त्यभियोजना अमेरिकीयसमयानुसारं रविवासरस्य सायं षट्वादनात्पूर्वम् अङ्गीकर्तव्यः इति यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः हमासं प्रति अन्त्यादेशं विज्ञापितवान्। नो चेत् तीव्रः प्रत्याघातः भविष्यतीति तेन भीषा अपि उद्घोषिता। 

  ७२ होराभ्यन्तरे बद्धानां विमोचनं, हमासस्य निरायुधीकरणं, ट्रम्पः अध्यक्षपदमलङ्कुर्वाणा 'बोर्ड् ओफ् पीस्' [Board of Peace] इति कृतनामधेयायै समित्यै गासायाः अल्पकालीनप्रशासनाधिकारः दातव्यः इत्यादिनिर्देशोपेता परियोजना इस्रयेलेन अङ्गीकृतमासीत्। किन्तु सन्धेः सर्वाः व्यवस्थाः अङ्गीकर्तुं न शक्यते; अनुसन्धानाय अधिकसमयः आवश्यकः इति कैश्चित् हमासनेतृभिः उक्तमासीत्। अत एव ट्रम्पेन अन्त्यनिर्देशः उद्घोषितः।

Friday, October 3, 2025

 भारत-चीनविमानसेवा अस्मिन् मासे पुनस्थापयिष्यति।

नवदिल्ली> ओक्टोबर् मासस्य अन्ते चीन-भारतयोः मिथः विमानसेवा  पुनरारप्स्यते इति विदेशकार्यमन्त्रालयेन निगदितम्। लडाके नियन्त्रणरेखायां उभयोरपि सेनयोः संघर्षेण सौहृदं खण्डितमित्यतः सेवा स्थगितमभवत्। चर्चाभिः उभयसम्बन्धः इदानीं श्रेष्ठतामापद्यत। अत एव ईदृशनिर्णयः।

 ५७ नूतनकेन्द्रियविद्यायानाम् अनुज्ञा। 

नवदिल्ली> वर्धमानां शैक्षिकार्हतां सफलीकर्तुं राष्ट्रमशेषं ५७ नूतनान्  केन्द्रियविद्यालयान् आरब्धुंकेन्द्रमन्त्रिमण्डलेन अनुज्ञा दत्ता। नववर्षाभ्यन्तरे विद्यालयानां निर्माणं पूर्तीकर्तुमुद्दिश्यते। ५८६२. ५५ कोटिरूप्यकाणां व्ययः प्रतीक्षते। 

  पूर्वं ८५ केन्द्रियविद्यालयानां अनुज्ञा दत्ता आसीत्। तैः सह एव नूतनानामनुज्ञा।

Thursday, October 2, 2025

 भारतस्य नाणकेषु इदंप्रथमतया भारताम्बायाः मुद्रा

    नवदिल्ली> आर् एस् एस्- शतकीयपर्वणः अवसरे प्रधानमन्त्रिणा नरेन्द्रमोदिना भारताम्बाया: चित्रयुक्तं शतमूल्यकं  विशेषनाणकं तद्विषयानुसारिणी पत्रालयचित्रमुद्रा च विमोचितौ। एतादृशं भारताम्बाया: चित्रं प्रथमवारं भारतीय नाणकेषु अंकितम्। प्रधानमन्त्रिणः वचनेन – “अयं क्षणः गौरवेण ऐतिहासिकेन च स्मरणीयः मुहूर्तः" इति। भारताम्बायै तथा राष्ट्रिय-स्वयं सेवक-सङ्घस्य  शतवर्षीयसेवायै च दीयमानः गौरवपूर्णः सम्मानः इति मोदिना उक्तम्।

   अस्मिन् पर्वणि केन्द्रसांस्कृतिकमन्त्री गजेन्द्रसिंहः शेखावत्, दिल्लीमुख्यमन्त्री रेखागुप्ता, राष्ट्रिय-स्वयं सेवक-सङ्घस्य  महासचिवः दत्तात्रेयः होसबाले, विनयः सहस्रबुद्धे महाशयाः च उपस्थिताः आसन्।

 तीव्रमतदानावलिपरिष्करणम् 

बिहारे ४७ लक्षं मतदानिनः आकुञ्चिताः। 

नवदिल्ली> बिहारराज्ये मतदानिनाम् आवल्यां तीव्रपरिष्करणे [SIR] पूर्तीकृते अन्तिमावल्यां ७. ४२ कोटि संख्याकाः मतदानिनः अन्तर्भवन्ति। तीव्रपरिष्करणात् पूर्वं विद्यमानात् ४७ लक्षं मतदानिनां न्यूनता वर्तते। 

  ओगस्ट् प्रथमदिनाङ्के प्रसिद्धीकृतायां संक्षिप्तमतदान्यावल्यां ७. २४ कोटि मतदानिनः आसन्। जूणमासे वर्तितायाः आवल्याः ६५ लक्षं मतदानिनः निष्कासिताः इति आक्षेपः जातः।

सरस्वति नमस्तुभ्यं
वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि
सिद्धिर्भवतु मे सदा ॥

ॐ हरिः श्री गणपतये नमः अविघ्नमस्तु ॥

Wednesday, October 1, 2025

 शबरिगिरौ मूल्योपेतवस्तूनां मूल्यगणनाय उच्चन्यायालयस्य आदेशः।


कोच्ची> केरले शबरिगिरि धर्मशास्तामन्दिरस्य सुवर्णमभिव्याप्य सर्वेषां मूल्योपेतवस्तूनां मूल्यगणनाय उच्चन्यायालयः  आदेशं व्यजिज्ञपत्। सेवानिवृत्तः न्यायाधिपः के टि शङ्करः एतदर्थं न्यायालयेन नियुक्तः। 

  शबरिगिरौ भगवतः सुवर्णमभिव्याप्य वस्तूनां समग्रसूचनाः न लभ्याः इति निर्णयस्य आधारे अस्ति न्यायालयस्य अयमादेशः।

 राष्ट्रिय-स्वयंसेवक- सङ्घस्य शताब्धिमेलने प्रधानमन्त्री सम्मिलिष्यति। चित्रमुद्रां नाणकं च प्रकाशयति ।

  नवदिल्ली> नवदिल्याम् आयोज्यमाने राष्ट्रिय-स्वयंसेवक- सङ्घस्य शताब्दिमेलने प्रधानमन्त्री नरेन्द्रमोदी अद्य मुख्यातिथिः भविष्यति। अंबेदकर इन्टर् नाषणल् सेन्टर् मध्ये प्रभाते १० वादने एव कार्यक्रमः। आर् एस् एस् संघस्य कार्यदर्शी दत्तात्रेय होसबले महाशयाः च भागं स्वीकरिष्यन्ति। निस्वार्थ राष्ट्रसेवाय जीवः दन्तवन्तः भवन्ति स्वयं सेवकाः इति विगते दिने 'मन् की बात्' कार्यक्रमे प्रधानमन्त्रिणा उक्तम् आसीत्।