OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, October 12, 2025

 अमेरिकस्य नियुक्तस्थानपतिः भारतं प्राप्तवान्।

 

  अमेरिकेन भारते राजदूतः सेर्जियो गोरः प्रधानमन्त्रिणा मोदिना सह मिलितवान्। महोदयस्य सेवाकाले उभयोः राष्ट्रयोः नयतन्त्रसाह्यं विशालं भविष्यति इति मोदिना आत्मविश्वासं प्राकटयत्। विषयमधिकृत्य x - सामाजिकमाध्यमे सः सन्देशं प्रकाशितवान्। गोरेण सम्मानितं चित्रं अपि मोदिना x मध्ये प्रकाशितम् अस्ति।

Saturday, October 11, 2025

 नवभिः यू के विश्वविद्यालयैः भारते विदूरपठनकेन्द्राणि  आरप्स्यन्ते - प्रधानमन्त्री।

मुम्बई> युणैटड् किंग्डम [UK] राष्ट्रस्य नव विश्वविद्यालयाः भारते तेषां विदूरपठनकेन्द्राणि आरप्स्यन्ते इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी न्यगादीत्। भारतसन्दर्शनाय प्राप्तेन ब्रिटनस्य प्रधानमन्त्रिणा केयर् स्टामरेण सह मुम्बय्यां राजभवने सम्पन्नस्य मेलनस्यानन्तरम् आयोजिते संयुक्तवार्ताहरसम्मेलने भाषमाणः आसीत् नरेन्द्रमोदी। उभयपक्षयोः शैक्षिकसहयोगे निर्णायको भवति अयं निश्चयः इति मोदिवर्येण उक्तम्।

 गासा शान्तिमधिगच्छति।

गासातः इस्रयेलसेनायाः अपसरणमारब्धम्। 

गासायां युद्धनिरासस्य वार्तां श्रुत्वा आह्लादं प्रकटयन्तः बालाः। 

गासानगरं> वर्षद्वयं यावत् दीर्घितस्य रक्तप्रस्रवणस्य ५६ होराणां शान्तिचर्चा फलप्रदा जाता। ह्यः गासायां युद्धनिरासः प्रवृत्तिपथमागतः। स्थलयुद्धात् गृहं परित्यक्तवन्तः गासानिवासिनः पालस्तीनीयाः प्रत्यागन्तुमारब्धवन्तः। 

  शान्तिपुनःस्थापनं लक्ष्यीकृत्य यू एस् राष्ट्रपतिना डोनाल्ड ट्रम्पेन समर्पितायाः २० अधिकरणात्मिकपरियोजनायाः प्रथमचरणं इस्रयेलेन अङ्गीकृतमासीत्। परियोजनायाम् अङ्गीकृतं  निश्चितस्थानं प्रति इस्रयेलसेना अपगता इति इस्रयेलरक्षासेनया [IDF] निगदितम्।

  सन्ध्यनुसारिण्यः व्यवस्थाः यथाकालं न पूर्तीकरिष्यन्ते चेत् इस्रयेलेन युद्धं पुनरारप्स्यते इति बञ्चमिन् नेतन्याहुः भीषामुद्घोषितवान्।

 अयोध्यायां स्फोटनं - पञ्च मरणानि। 

अयोध्या> उत्तरप्रदेशस्थायाम् अयोध्यायां तीव्रस्फोटनस्यानन्तरं गृहं विनश्य ५ जनाः मृताः। अनेके आहताः। 

  पाग्ल भारि नामके ग्रामे आसीदियं दुर्घटना। स्फोटनस्य हेतुः अस्पष्टः वर्तते। आरक्षकान्वेषणं पुरोगम्यते।

Friday, October 10, 2025

 अफ्गानस्य विदेशमन्त्री दिल्लीं प्राप्तवान्।

नवदिल्ली> षट् दिवसात्मकानां सन्दर्शनाय तथा भारतशासकीयैःसह चर्चायै च अफ्गानिस्थानस्य अर्थात् तालिबानप्रशासनस्य विदेशमन्त्री अमीर् खान मुत्तखी गुरुवासरे दिल्लीं प्राप्तवान्। २९२१ तमे वर्षे तालिबानसंघटनस्य अधिकारप्राप्त्यनन्तरं इदंप्रथमतया  एव अफ्खानराष्ट्रस्य कश्चनाधिकारी भारतम् आगच्छति ।

  सन्दर्शनवेलायां भारतविदेशकार्यमन्त्री एस् जयशंकरः, राष्ट्रिय सुरक्षा उपदेष्टा अजित डोवलः इत्येताभ्यां सह प्रधानविषयेषु  मुत्तखी चर्चां  करिष्यति।


 शान्तिनोबेलः महिलायै समर्पयति।

मरिया कोरीना मचाडो पुरस्कृता।


स्टोक् होमः>  अस्मिन् वर्षे शान्त्यर्थं दीयमानाय नोबेलपुरस्काराय  मरिया कोरीना मचाडो नामिका मानवाधिकारप्रवर्तका अर्हा अभवत्। वेनिस्वला राष्ट्रस्य विपक्षनेत्री अस्ति मरिया कोरीना। शान्तिनोबेलपुरस्कारेण समाद्रियमाणा २० तमा महिला भवति ५८ वयस्का मरिया कोरीना। 

  वेनस्वला इति दक्षिणामेरिकीयराष्ट्रे अनुवर्तमानं लोकतन्त्रविरुद्धप्रशासनं विरुध्य २००२ तमवर्षादारभ्य मानवाधिकाराय प्रचाल्यमानस्य  संग्रामस्य नेत्री अस्ति मरिया। इदानीं निलीय एव सा प्रक्षोभं नयति। वेनस्वेलियजनतायै प्रचाल्यमानस्य प्रवर्तनस्य अङ्गीकारः एव पुरस्कारवब्धिरिति निरीक्षते।

Latest news


 क्रास्न हार्कयी इत्यस्मै साहित्यनोबेलः। 


स्टोक् होमः>  शक्तया तत्तचिन्ताधिष्ठितया च रचनया अक्षरशक्तिं प्रमाणीकृतवान् हंगेरियः साहित्यकारः नाम्ना लास्लो क्रास्न हार्कयी २०२५ तमवर्षस्य साहित्य नोबेलपुरस्काराय चितः। आधुनिकयूरोपीयसाहित्ये प्रमुखेषु अन्यतमो भवति क्रास्न हार्कयी। 

  पञ्च आख्यानानि [Novels] तेन रचितानि। पूर्णविरामं विना दीर्घेण संकीर्णघटनायुक्तेन च वाक्येन खण्डिकाः पुटानि वा विरच्यमानानीति तस्य रचनारीतिः। 

  हङ्गतीतः नोबेलसम्मानजेता द्वितीयः साहित्यकारः अस्ति क्रास्न हार्कयी। 'सातान् टोंगो' [SATANTANGO' अस्य विश्वविख्याता आख्यायिका अस्ति।

 उद्योगिनः संख्यां न्यूनीकर्तुम् अक्सेञ्चर् संस्थया २०० कोटि डोलर् व्ययीकृतम्।

   आधारसुविधायाः विकासाय औद्योगिकसंस्थाः अधिकं धनं सामान्येन व्ययीकुर्वन्तः सन्ति खलु ?। किन्तु विगतेषु त्रिषु संवत्सरेषु आहत्य तस्मिन् कालाभ्यन्तरे आक्सेञ्चर् संस्थया तेषां २०० कोटि डोलर् धनं कर्मकराणां संख्यां न्यूनीकर्तुमेव व्ययीकृतम्। विगते मासत्रयाभ्यन्तरे ११ सहस्राधिके कर्मकराः ततः निष्कासिताः। नूतन कौशलानि प्रौढान् कर्मकरान् परिशीलयितुं (re skilling) न शक्यन्ते इत्यनेन भवति अयं दुःखपूर्णः निश्चयः स्वीकृताः इति संस्थायाः CEO जूलि स्वीट् उक्तवती। कृत्रिमबुद्धिमत्तायाः प्रयोगे प्रयत्नं कर्तुम् बद्धश्रद्धालू भवति संस्था इत्यस्ति प्रतिवेदनम्।

Thursday, October 9, 2025

 कान्पुरे द्विचक्रिकाद्वयं विस्फोटितम्।

अष्ट व्रणिताः; चत्वारः तीव्रावस्थायाम्।

स्फोटितं यानद्वयं आरक्षकैः परिशुध्यते। 

कान्पुरं> उत्तरप्रदेशस्थे कान्पुरे 'मेस्टण् रोड्' नामके आपणप्रदेशे द्वयोः द्विचक्रिकयोः विस्फोटने अष्ट जनाः व्रणिताः। तेषु चतुर्णामवस्था कठिनतरा इति सूच्यते। 

  बुधवासरे रात्रौ सार्धसप्तवादने आसीदियं दुर्घटना। समीपप्रदेशस्थाः आपणाः भग्नाः। याने छद्मना संभृतानि विस्फोटकानि विद्युत्कोशाः वा स्फोटनस्य हेतुरिति सन्दिह्यते। आरक्षकैः अन्वेषणमारब्धम्।

 कासौधदुरन्तः 

विश्व स्वास्थ्यसंघटनेन विशदीकरणं मार्गितम्। 

मध्यप्रदेशे कासौषधसेवया मृतशिशूनां संख्या २० अभवत्। 

नवदिल्ली> भारते कासमध्वौषधसेवया शिशवः मृताः  विभिन्नराज्येषु कासौषधस्य निरोधः जातः च इत्यस्य आधारे केन्द्रप्रशासनं प्रति विश्वस्वास्थ्यसंघटनेन [WHO] विशदीकरणं मार्गितम्। 'कोल्ड्रिफ् सिरप्' इति कासौषधं विदेशराष्ट्राणि   निर्यातं कृतं वा इत्यस्य विशदांशाः एव 'हू' संस्थया अभियाचिताः। 

  एतदाभ्यन्तरे मध्यप्रदेशे कासमध्वौषधसेवया मृतानां शिशूनां संख्या २० अभवत्।

Wednesday, October 8, 2025

 केय्रो शान्ति चर्चा द्वितीयचरणं प्राविशत्। 

केय्रो> गासायां वर्षद्वयेन अनुवर्तमानायाः वंशहत्यायाः परिसमाप्तिं प्रतीक्षमाणा इस्रयेल-हमासयोः चर्चा द्वितीयदिनं प्राविशत्। यू एस् , खत्तरः, ईजिप्त राष्ट्राणां माध्यस्थे चर्चा अग्रे गच्छति। 

  डोनाल्ड ट्रम्पेन पुरस्समर्पितां २० निर्देशोपेताम् अभियोजनां हमासेन अङ्गीकारयितुमेव मध्यस्थप्रयत्नः प्रचलति। इस्रयेलेन अभियोजना पूर्वमेवाङ्गीकृता।

  पञ्चसु अधिकरणेषु समवायः भवितव्यः इति सूच्यते। 

 १. त्वरितयुद्धविरामः, २. बद्धानां पालस्तीनीयानां मोचनं, ३. गासातः इस्रयेलस्य सैनिकापसरणं, ४. गासां मानविकसाह्यानयनं, ५. युद्धानन्तरगासायाः प्रशासनम् इत्येतेषु विषयेषु समवायः कार्यः।

 भौतिरशास्त्रनोबेल् पुरस्कार‌ः 

त्रयः सम्मानिताः।


स्टोक् होमः> २०२५ तम वर्षे भौतिकशास्त्राय दीयमानाय नोबेलपुरस्काराय त्रयः शास्त्रज्ञाः अर्हाः अभवन्। 'क्वाण्टं' साङ्केतिकविद्याधिष्ठितस्य अनुसन्धानस्य सूत्रधाराः जोण् क्लार्क् [ब्रिटनं], मिषेल् एछ् डेवोरैट् [फ्रान्स्], जोण् एम् मार्टिनिस् [यू एस्] इत्येते त्रयः शास्त्रज्ञाः सम्मानिताः।

 हिमाचले बस् यानस्य उपरि गिरिपार्श्वप्रपातः।

१५ मरणानि।

षिंला>  हिमाचलप्रदेशस्थे बिलासपुरमित्यत्र बस् यानस्य उपरि गिरिपार्श्वप्रपातेन १५ यात्रिकाः मृताः। यानसेवकाः अपि मृतेषु अन्तर्भवन्ति। त्रयः रक्षिताः। दुर्घटनावेलायां ३५ जना बस् याने आसन्निति सूच्यते। 

  कुजवासरे सायम् आसीत् दुर्घटना। मृत्युसंख्या परं वर्धिष्यते। रात्रावपि रक्षाप्रवर्तनमनुवर्तते। अतीतेषु कतिपयदिनेषु राज्ये अतिवृष्टिः तदनुबन्धदुष्प्रभावश्च अनुवर्तते।

Tuesday, October 7, 2025

 इस्रयेल-हमासचर्चा केय्रोमध्ये समारब्धा। 

कय्रो> गासायां वर्षद्वयं यावत् अनुवर्तमानं रिधिरस्रावमपाकर्तुं इस्रयेल-हमासयोः निर्णायकचर्चा ईजिप्तराष्ट्रे केय्रोनगरे समारब्धा। खतरं, यू एस्, ईजिप्त् राष्ट्राणां प्रतिनिधयद्वारा एवा चर्चा सम्पद्यते।

 बिहारनिर्वाचने परिष्काराः अपि परीक्ष्यन्ते। 

नवदिल्ली> बिहारराज्ये नवम्बर् ६, ११ दिनाङ्कयोः सम्पत्स्यमाने विधानसभानिर्वाचने नूतनपरिष्काराः अपि परीक्ष्यन्ते। २०२० तमस्य निर्वाचने सोपानत्रयमासीत्। इदानीं सोपानद्वयेन निर्वाचनं पूर्तीकर्तुमुद्दिश्यते। जनसम्मर्दं निराकर्तुं मतदानकेन्द्रेषु मतदानिनां संख्या १२०० इति निश्चिता। निर्वाचनकेन्द्रेषु 'वेब् कास्टिंग्' [Web casting] व्यवस्था कृता। एवं १७ अधिकरणेषु परिष्काराः विधत्ताः। 

  अशेषं राज्ये २४३ मण्डलानि वर्तन्ते। आहत्य ७. ४३ कोटि संख्याकाः मतदानिनः सन्ति। तेषु पुरुषाः ३. ९२कोटि, महिलाः ३. ५० कोटि, भिन्नलिंगाः १७२५ च सन्ति। १४. ०१ लक्षं नूतनाः मतदानिनः सन्ति।

 फ्रञ्च प्रधानमन्त्री सेबास्ट्यन् लेकार्णुः पदं त्यक्तवान्। 

वर्षद्वयाभ्यन्तरे पञ्च प्रधानमन्त्रिणः स्थानं त्यक्तवन्तः। 

सेबास्ट्यन् लोकार्णुः। 

पारीसः> स्थानं लब्ध्वा मासमेकं पूर्तीकरणात्पूर्वं फ्रान्सस्य प्रधानमन्त्री सेबास्ट्यन् लेकार्णु नामकः त्यागपत्रं समार्पयत्।   अतीतमन्त्रिमण्डलस्य भूरिशः सदस्याः लेकार्णोः मन्त्रिमण्डले अपि  अन्तर्भूताः  इति तं प्रति शासनपक्षादेव प्रतिषेधस्य कारणमभवत्। तदेव लेकार्णोः स्थानत्यागस्य हेतुः। 

  लेकार्णोः त्यागपत्रं राष्ट्रपतिना इम्मानुवल् मक्रोणेन अङ्गीकृतम्। वर्षद्वयाभ्यन्तरे स्थानत्यागं कुर्वन् पञ्चमः प्रधानमन्त्री अस्ति सेबास्ट्यन लेकोर्णुः।

 आतुरालये अग्निबाधा - षट् मरणानि।

जयपुरं> राजस्थाने जयपुरस्थे सवाय् मानसिंहातुरालये तीव्रपरिचरणविभागे दुरापन्नेन अग्निप्रकाण्डेन षट् रोगिणः मृत्युमुपगताः। चत्वारः पुरुषाः द्वे महिले च मृताः। पञ्च जनाः दग्धव्रणिताः जाताः। सार्धहोरामुपयुज्य एवाग्निः निर्वापितः।

Monday, October 6, 2025

 बिहारे विधानसभानिर्वाचनं

दिनाङ्कः विज्ञापितः।

पाट्ना> बिहारराज्ये विधानसभानिर्वाचनं नवम्बरमासस्य ६, ९९ दिनाङ्कयोः सोपानद्वयेन विधास्यते। प्रथमसोपाने १२१ विधानसभामण्डलेषु निर्वाचनं सम्पत्स्यते। शिष्टे १२२ स्थानेषु नवम्बर् ११तमे दिनाङ्के निर्वाचनं भविष्यति। मतगणना १४ तमे दिनाङ्के भविष्यति।

Latest News