बहिराकाशनिलये चलनचित्रं ग्रहीतुं रष्यः।
OUR YouTube Channel 1. SampratiVartah |
marquee
Saturday, September 11, 2021
केरले कोविडः नियन्त्रणे ; लाघवं प्रख्यापितम्।
अनन्तपुरी> अस्य मासस्य प्रारम्भादारभ्य केरलस्य कोविडप्रकरणेषु न्यूनता दृश्यते। अष्टादशाधिकं प्राप्तं टि पि आर् मानं साप्ताहिकं यावत् १६.५ इति क्रमेण आकुञ्चितम्। अतः सर्वकारेण केषुचित् मण्डलेषु लाघवं विज्ञापितम्।
रविवासरेषु अनुवर्तितं पिधानम् अपाकृतम्। ओक्टोबरमासस्य चतुर्थे दिनाङ्के कलालयाः व्यवस्थां परिपाल्य उद्घाटयिष्यन्ते। ततः पूर्वम् अध्यापकानां छात्राणां च वाक्सिनीकरणं पूर्तीकरिष्यति इति सर्वकारेण उक्तम्।
तालिबानेन सह चर्चा अनुवर्तनीया - यू एन्।
यूनाइटेड् नेषन्स्> अफ्गानजनतायाः हितं संरक्षणं च पुरस्कृत्य तालिबानेन सह निरन्तरचर्चा अनुवर्तनीया इति यू एन् प्रतिनिधिसभा राष्ट्रगणं प्रति निरदिशत्। सचिवप्रमुखः अन्टोणियो गुट्टरसः उक्तवान् यत् अफ्गानजनतां प्रति ऐक्यदार्ढ्यं विज्ञाप्य जनहिततत्वेषु संस्थाय चर्चाः अनुवर्तयितुं अन्ताराष्ट्रसमूहः सज्जः भवेत्।
आर्थिकभञ्जनेन अफ्गानिस्थाने लक्षशः जनानां मृतिमपाकर्तुं राष्ट्राणि यतेयुरिति सभया अपेक्षितम्। तालिबानेन प्रख्यापितः नूतनसर्वकारः संतृप्तिं न प्रददातीति सभया सूचितम्।
Friday, September 10, 2021
भारते १८% जनाः कोविड्वाक्सिनस्य मात्राद्वयमपि स्वीचक्रुः।
नवदिल्ली> राष्ट्रे अष्टादशोपरिवयस्केषु १८% जनाः कोविड्वाक्सिनस्य मात्राद्वयमपि स्वीकृतवन्त इति ऐ सि एम् आर् संस्थायाः निदेशकः बलराम भार्गवः अब्रवीत्। ५८% जनाः मात्रामेकां स्वीकृतवन्तः अद्यावधि ७२ कोटि मात्राणि वाक्सिनौषधानि वितीर्णनि। अधुना प्रतिदिनं विंशतिलक्षं जनाः वाक्सिनानि स्वीकुर्वन्तः सन्ति।
वाक्सिनीकरणप्रवर्तनानि त्वरितोत्साहेन अग्रे गच्छन्त्यपि राष्ट्रं कोविड्महामार्याः द्वितीयतरङ्गे एव वर्तते इति स्वास्थ्यसचिवेन राजेष् भूषणेनोक्तम्। प्रतिदिनप्रकरणानां ६८% केरले एव। राज्यस्य सर्वाणि जनपदानि समेत्य आराष्ट्रं ३५ जनपदेषु टि पि आर् मानं प्रतिशतं दशाधिकमस्ति। आगामिषु दसरा, दीपावलिः, क्रिसतुमस् इत्यादिषु उत्सवेषु अतिजाग्रता करणीया इति सर्वकारेण निर्दिष्टम्।
Thursday, September 9, 2021
प्रतिरोधशिक्षाकेन्द्रे बालिकानामपि प्रवेशानुज्ञा।
नवदिल्ली> भारतस्य अभिमानकेन्द्रत्वेन वर्तमानायां एन् डि ए संस्थायां [National Defense Academy] बालिकानामपि प्रवेशं कर्तुम् अनुज्ञां दाुंतुं निर्णीतमिति केन्द्रसर्वकारः सर्वोच्चन्यायालयं न्यवेदयत्। सेनायाः उन्नतस्तरे एव एतदर्थं निर्णयः विहित इति 'अडीषणल् सोलिसिटर् जनरल्' एश्वर्या भाट्टी इत्यनया निवेदितम्।
अनेन निर्णयेन महिलानामपि सायुधसेनायां चिरनियुक्तेः अवसरः लभ्यते।
प्रतिषेधान् निरुध्य तालिबानः।
काबूलम्> नूतनसर्वकारस्य रूपीकरणानन्तरं अफ्गानिस्थानस्य सामान्यस्थानेषु प्रतिषेधसंघीकरणानि तालिबानप्रशासनेन निरुद्धानि। सर्वकारकार्यालयानाम् उद्घाटनानन्तरं प्रतिषेधविरुद्धाः नियमाः सर्वकारेण विशदीकरिष्यन्ते। तावत्पर्यन्तं प्रतिषेधाः निरोधिताः इति तालिबानवक्त्रा सबिहुल्ला मुजाहिदेनोक्तम्।
कुजवासरे अफ्गानिस्थाने पाकिस्थानस्य व्यवधानं विरुध्य काबूलस्थस्य पाक्कार्यालयस्य पुरतः महिलासहिताः शतशः जनाः प्रतिषेधमायोयन्ति स्म। तदनन्तरमेवेदृशः प्रक्रमः। जनसमुदायं प्रतिनिवर्तयितुं तालिबानः आकाशं प्रति भुशुण्डिप्रयोगमकरोत्।
पारालिम्पिक्स् मेला परिसमाप्ता; भारतस्य महल्लाभः।
टोक्यो> अङ्गपरिमितानां विश्वकायिकक्रीडामेलायाः - पारालिम्पिक्स्-अन्ते अभिमानस्य उत्तुङ्गश्रृङ्गे भारतम्। पञ्चसुवर्णानि अभिव्याप्य १९ पदकानि सम्प्राप्य भारतेन पारालिम्पिक्स् चरितस्य श्रेष्ठतरं निर्वर्तनं विधत्तम्। पदकपट्टिकायां २४तमं स्थानं प्राप्तम्।
२०१६तमे वर्षे रियो पारालिम्पिक्स्' मध्ये प्राप्तानि सुवर्णद्वयसहितं पदकचतुष्टयमेव एतावत्पर्यन्तं भारतस्य श्रेष्ठतरं निर्वर्तनम्। अस्यां मेलायां पञ्चसुवर्णानि, अष्ट रजतानि, षट् कांस्यानि च भारतेन प्राप्तानि। पूर्वं समाप्ते ओलिम्पिक्स् महोत्सवे अपि पदकसप्तकं सम्प्राप्य श्रेष्ठतरं प्रकटनं प्रदर्शितमासीत्।
पारालिम्पिक्स् मध्ये चीनः ९६ सुवर्णानि समेत्य २०७ पदकैः प्रथमस्थानमवाप। ब्रिटनः द्वितीयं स्थानं प्राप्तवान्। तृतीयस्थानं तु अमेरिक्कया प्राप्तम्।
ट्वन्टि ट्वन्टि विश्वचषकाय भारतीयदलं प्रख्यापितम्। दले प्रमुखाः केचन न सन्ति।
नवदिल्ली> अस्मिन् संवत्सरे ट्वन्टि ट्वन्टि विश्वचषकाय भारतीय क्रिक्कट्दलं प्रख्यापितम्। बहुकालानन्तरं नियमित- कन्दुकक्षेपचक्र-क्रीडकेभ्यः बहिः स्थितः बहिः स्थितः आर् अश्विनः पञ्चदशाङ्गसंघेषु स्थानं प्राप्तवान्। कैरलीक्रीडकस्य सञ्जु साम्सणस्य दले प्रवेशः न लब्धः। आवर्तक्षेपकः (spinner) युस्वेन्द्र चाहल्, कुलदीप् यादव् प्रभृतयः अपि दलात् बहिर्गताः। शिखर् धवानस्य अपि दले अवसरो न लब्धः। पूर्वतननायकः एम् एस् धोनिः उपदेशकरूपेण दलेन साकं भविष्यति इति बि सि सि ए कार्यदर्शिना जय् षा महोदयेन आवेदितम्।
Wednesday, September 8, 2021
ब्रिक्स् उच्चशिखरसम्मेलनम् - नरेन्द्रमोदी अध्यक्षः। व्लाडिमिर् पुटिनः, षि जिन्पिङ् च भागं स्वीकरिष्यतः।
नवदिल्ली> त्रयोदशतमे ब्रिक्स् उच्चशिखरसम्मेलने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अध्यक्षः भविष्यति। गुरुवासरे अन्तर्जालद्वारा एव मेलनम् भविष्यति। अफ्गानिस्थानस्थस्य अद्यतनीया परिस्थितिम् अधिकृत्यैव प्रमुखचर्चाविषय: स्यात् इति प्रतीक्ष्यते। रष्यायाः राष्ट्रपतिः व्लाडिमिर् पुटिन्, चीनस्य राष्ट्रपतिः षि जिन्पिङ् दक्षिणाफ्रिक्कायाः राष्ट्रपतिः सिरिल् रामफोसा, ब्रसीलस्य राष्ट्रपतिः जयिर् बोल्सनारो इत्यादयः उच्चशिखरसम्मेलने भागं स्वीकरिष्यन्ति। केन्द्रविदेशकार्यमन्त्रालयेनैव विषयमिदं आवेदितम्। ब्रसीलः, रष्या, भारतं, चीना, दक्षिणाफ्रीक्का प्रभृतीनां पञ्च विकसितराष्ट्राणां समवायः भवति ब्रिक्स् । प्रधानमन्त्री नरेन्द्रमोदी द्वितीयवारमेव ब्रिक्स् उच्चशिखरसम्मेलने अध्यक्षपदवीं अलङ्करोति।
Tuesday, September 7, 2021
शैक्षिकसंवत्सरस्य प्रथमदिने काबुले शैक्षिकसंस्थाः छात्ररहिताः अभवन्
![]() |
| चित्रग्रहणम् - ए एफ् पि |
Monday, September 6, 2021
तालिबान् सर्वकारस्य स्थानारोहणे चीना पाकिस्थान प्रभृतीनां राष्ट्राणाम् आमन्त्रणम्।
Sunday, September 5, 2021
आयकरदायकेभ्यः ६७,४०१ रूप्यकाणि प्रतिददाति आयकरविभागः।
नवदिल्ली> सार्धत्रिमासाभ्यन्तरे आयकरदायकेभ्यः ६७.४०१ कोटि रूप्यकाणि प्रतिददाति आयकरविभागः। एप्रिल् मासस्य प्रथमदिनात् आरभ्य आगस्त् मासस्य त्रिंशत् दिनं यावत् एव २४ लक्षं रूप्यकणि आयकरदायकेभ्यः प्रदत्तः। व्यक्त्यघिष्ठित एकीकृतविभागेषु एव शुल्कः दातुं निश्चितः। १६,३७३ कोटि रूप्यकाणि आयकररूपेण प्रतिदातुं तथा ५१.०२९ रूप्यकाणि एकीकृतकररूपेण प्रतिदातुमेव निश्चितः। आयकर -विवरणपत्रिका (Income tax return) यदा समर्प्यते तदनुसारमेव अधिकतया अर्पितं धनं विलम्बं विना प्रतिदास्यते।
Saturday, September 4, 2021
भारताय आशङ्कां प्रदाय अफ्गानिस्थाने बाग्राविमानपत्तनस्य नियन्त्रणं स्वायत्तीकर्तुं चीनेन प्रयतते ।
पारालम्पिक्स् - भारताय गतदिने पदकत्रयलब्धिः।
टोक्यो > अङ्गपरिमितानां कायिकमहोत्सवे - पारालिम्पिक्स् - गतदिने भारताय पदकत्रयमपि अलभत। अनेन आहत्य पदकलब्धिः १३ अभवत्।
ह्यः गुलिकाप्रक्षेपिका अवनी लेख्रा ५० मीटर् रैफिल् स्पर्धायां कांस्यं प्राप्तवती। अवन्याः द्वितीयपदकमेवैतत्। पूर्वं १० मी.एयर् रैफिल् विभागे सुवर्णं प्राप्तवती आसीत्।
पुरुषाणाम् उत्कूर्दनस्पर्धायां [टि ६४विभागः] प्रवीणकुमारः रजतं शरप्रक्षेपणे हरविन्दर सिंहः कांस्यं च प्राप्तवन्तौ। अनेन भारतस्य अशेषपदकलब्धिः १३ अभवत्। तत्र सुवर्णद्वयं षट् रजतानि चान्तर्भवन्ति।
'ऐडा'चक्रवातः - यू एस् मध्ये ४६मरणानि।
न्यूयोर्क्> यू एस् राष्ट्रे दुरापन्नस्य ऐडानामकचक्रवातस्य दुष्प्रभावे ४६ मरणानि निवेदितानि। अतिवृष्ट्या नदीषु जलोपप्लवः जातः।
न्यूजेर्सी राज्ये २३, न्यूयोर्के १३,पेन्सिलवानियायां ५ जनाः च मृत्युमुपगताः इति आवेदितम्। न्यूयेर्के ५०० अधिकानि यानानि जले निमग्नानि। न्यूयोर्क् न्यूजेर्सी राज्ययोः विमान रेल् यानसेवाः स्थगिताः।
Friday, September 3, 2021
वटुकच्चियम्मायाः कथा
अफ्गानिस्थानः दुर्भिक्षमभिमुखीकरोति - आशङ्कां प्रकाशयत् यू एन्।
जनीवा> अफ्गानिस्थाने निष्किञ्चनानां कृते वर्तमानः भक्ष्यसञ्चयः समाप्तिं प्राप्नोतीति संयुक्तराष्ट्रसंघटनम् आङ्कां प्राकाशयत्। इतोऽपि भक्ष्यसञ्चयनाय २० कोटि यू एस् डोलर् परिमितं यावच्छीघ्रं लभ्यं करणीयमिति संघटनेन लोकराष्ट्राणि अपेक्षितानि।
राष्ट्रे जनसंख्याः त्रिषु एकांशस्य [⅓] प्रतिदिनभोजनलभ्यता नास्ति। ऊनपञ्चवयस्केषु बालकेषु अर्धाधिकाः आगामिसंवत्सरे पोषकन्यूनताग्रस्ताः भविष्यन्ति इति सचिवमुख्यः टेट्रोस् अथनों गब्रियेसूसः अवदत्।
भारते ४७,०९२ नूतनाः कोविड्रोगिणः।
नवदिल्ली> गतदिने ४७,०९२ जनाः अपि कोविड्बाधिताः अभवन्। मासद्वयानन्तरं सञ्जाता अधिकसंख्याका रोगबाधा भवत्येषा। अनेन राष्ट्रे आहत्य कोविड्बाधिताः ३,२८,५७,९३७ अभवन्।
गतदिने ५०९ रोगिणः अपि मृत्युमुपगताः। आहत्य मरणानि ४,३९,५२९ जातानि। प्रतिसाप्ताहिकरोगस्थिरीकरणमानं २.६२ अस्ति। ३,८९,५८३ जनाः विविधराज्येषु परिचर्यायां वर्तन्ते।
Thursday, September 2, 2021
प्रतिरोधसेनायाः पुरतः तालिबानः विकम्पते। पञ्चषीरे १३ आतङ्कवादिनः हताः।
विविध-सामाजिक-योगक्षेम परियोजनायाः फलभोक्तृन् प्रत्यभिज्ञातुं सुविधाः आयोक्ष्यन्ते।
कोविड् - केरले नूतनः उपप्रभेदः वर्धते।
नवदिल्ली> राष्ट्रे द्वितीयकोविड्व्यापनस्य तीव्रतायां कारणभूतस्य 'डेल्टा'प्रभेदस्य नवीनः उपप्रभेदः केरले वर्धमानरीत्या दृश्यते। जुलाई आगस्ट् मासयोः राज्यस्य ५ जनपदेषु डेल्टायाः उपप्रभेदरूपः 'ए वै 1' इति कृतनामधेयः दृष्टः। आनुपातिकतया केरले एव अधिकतया दृश्यते। केरलमतिरिच्य महाराष्ट्रे अपि एषः उपप्रभेदः दृश्यते इति सि एस् ऐ आर् संस्थायाः संशोधने स्पष्टीकृतमस्ति।
एरणाकुलम् इटुक्की, कोट्टयं, पत्तनंतिट्टा, तिरुवनन्तपुरं जनपदेषु एव ए वै1 प्रभेदः अधिकतया दृश्यते।
Wednesday, September 1, 2021
ऐ एस् के नाम आतङ्गवादसंघेन सह संबन्धिताः २५ भारतीयनागरिकाः अफगानिस्थाने निरीक्षणे वर्तन्ते
काबूल्> ऐ एस् के नाम आतङ्गवादसंघेन सह सम्बन्धिताः २५ भारतीयनागरिकाः अफ्गानिस्थाने निरीक्षणे वर्तन्ते इति प्रतिवेदनम्। तालिबानेन अफ्गानिस्थानस्य प्रशासनं बलात्कारेण स्वायत्तीकृतानन्तरं कारागृहात् तान् मुमोच। तेषां चलनानि राष्ट्रसुरक्षाविभागः तथा गुप्तान्वेषणविभागः च ससूक्ष्मं निरीक्षते। पाकिस्थानस्य सीमासमीपे अफ्गान् प्रदेशे नान्गार्हर् मण्डले एव इदानीं ते सन्ति इति सुरक्षादलः चिन्तयति। ओसामा बिन्लादनस्य पूर्वसुरक्षाधिकरी आमीन् अल्हगस्य जन्मस्थलसमीपे एव एते निलीय वसन्ति इति सूचनाप्यस्ति।
Tuesday, August 31, 2021
भारतीयसभ्यतायाः प्रत्यभिज्ञानं संस्कृताध्ययनेन।
पालक्काट्> केरल-संसकृताद्ध्यापक-फेडरेषन् संस्थायाः दायित्वे पालक्काट् जनपदस्तरीय संस्कृत-दिनाचरणम् समायोजितम्। भारतीय सभ्यतायाः प्रत्यभिज्ञानं संस्कृताध्यनेन स्वायत्तीकर्तुं शक्यते इति उत्तराखण्डराज्यस्थ केन्द्रीय-संस्कृत-विश्वविद्यालयस्य वैदिकविभागस्य प्राध्यापकः डॉ. अमन्दमिश्रमहोदयः स्वीयोद्घाटनभाषणे अब्रवीत्। संस्कृतम् संस्कृतेनैव पठनस्य पाठनस्य च आवश्यकताम् अधिकृत्य केरल-सर्वकारीय महाविद्यालयीय ज्योतिषविभागस्थ प्राध्यापकः डोः सुधीष् ओ एस् महाभागोवदत्। पालक्काट् डयट् संस्थायाः प्राचार्यः श्री के एन् सोमराज महाशयः विशिष्ठातिथि रूपेणोपस्थितः। श्री अनिल् कोन्नेलिक्कल् महोदयेन विरचितं मञ्जुभाषिणीति गीतम् आलप्य मेलने प्रकाशितम्। केरल-संसकृताद्ध्यापक -फेडरेषन् संस्थायाः प्रान्तीयाध्यक्षः श्री पि पद्मनाभः महाशयः, प्रान्तीयोपाध्यक्षः श्री के के राजेष् महोदयः, जनपदाध्यक्षः श्री एस् भास्करः, बि प्रमोद, श्रीमति रजिता, श्रीमति सि आर् सुजाता, श्रीमति पि राखी इत्येते स्वाभिमतान् प्रकटितवन्तः। १२ जनपदेभ्यः संस्कृतशिक्षकाः भागं स्वीकृतवन्तः। जनपद स्तरीय शैक्षणिक अधिकारिणः अपि भागं स्वीकृतवन्तः।सुवर्णद्वयं समेत्य पञ्च पदकानि।
टोक्यो> ओलिम्पिक्स् महोत्सवस्यानन्तरं टोक्यो नगरे प्रचाल्यमाने पारालिम्पिक्स् नामके अङ्गपरिमितानाम् 'ओलिम्पिक्स्' महोत्सवे भारतस्य अत्युज्वलं प्रकटनम्। शूलक्षेपणे गुलिकाप्रक्षेपे च भारतेन सुवर्णपदकं प्राप्तम्। एतत्समेत्य पञ्च पदकानि भारतेन प्राप्तानि।
पुरुषाणां शूलक्षेपणे एफ् ६६ विभागे हरियाणे पानीपत प्रदेशीयः सुमित् आन्टिलः सुवर्णपदकः प्राप्तः। महिलानां १० मीटर् 'एयर् रैफिल्' स्पर्धायां राजस्थानीया अवनी लेख्रा अपि भारताय सुवर्णं सम्पादितवती। पुरुषाणां शूलक्षेपणस्य एफ् ४६ विभागे देवेन्द्रजजारियः रजतपदकं, सुन्दरसिंह गुर्जरः कांस्यं च सम्प्राप्तवन्तौ।
अफगान् प्रकरणे नरेन्द्रमोदिनः वाचः स्वागतार्हाः - कपिलसिबिलः।
नवदेहली> अफ्गानिस्थानस्य समस्यायां मोदिनः वाचं स्वागतीकरोति इति काँग्रस् दलस्य वरिष्ठनेता कपिल सिबिल: अवदत्। पीडितेभ्यः जनेभ्यः साहाय्यं करणीयम् इति एतत् राष्ट्रस्य लोकतान्त्रिकमर्यादा भवति इति सः अवदत्। साहाय्यं सर्वधर्मानुद्दिश्य भवितव्यम्। "यः कोपि भारतनागरिकः विश्वस्मिन् कोणे यत्रकुत्रापि भवतु लग्नः चेत् आराष्ट्रं तस्य साहाय्यतायैः तेन सह स्थास्यति" इति शनिवासरे मोदिना उक्तमासीत्। दुरितबाधितः हैन्दवः वा अफगानिजना: वा भवतु तस्य साहायता अस्माभिः करणीया इति भारतस्य लोकतान्त्रिक-उत्तरदायित्वं भवति इति मोदिना उक्तं यत् तत् अहं स्वीकरोमि इति कपिल सिबिलः अवदत् ।
असङ्ख्या: प्रतिरोधाः आसन् तथापि अफ्गानिस्थानतः भारतीयाः सर्वे ततः आनीता: इति अमृतसरसि नवीकृतं 'जालियन् वालाबाग्' स्मृतिमण्डपं राष्ट्राय समर्पणं कृत्वा मोदिना उक्तम् । 'ओपरेषन् देवी' इति रक्षायोजनया शतशः जनाः एवं भारतं नीताः सन्ति इति च महोदयः अवदत्।







