२० मावोवादिनः आत्मसमर्पिताः।
हैदराबादः> तेलङ्कानराज्ये २० मावोवादिनः कमान्डर् पदीयः देव इति कथ्यमानः बद्से सुक्का इत्यस्य नेतृत्वे आरक्षकाणां पुरतः आत्मसमर्पिणं कृतवन्तः। हतः मावोवादिनेता माधवी हिद्मा इत्यस्य अनुचरः अस्ति बद्से।
पानजले मालिन्यम्।
मध्यप्रदेशे दश जनाः मृताः।
उपसहस्रं जनाः रोगबाधिताः; ३२ जनाः तीव्रपरिचर्याविभागे।
इन्दोर्> मध्यप्रदेशस्थे इन्दोरे मालिन्यमिश्रितं पानजलं पीत्वा दश जनाः मृत्युमुपगताः। नगरसभया नालिकाद्वारा वितरणं कृते पानजले शौचालयमालिन्यं मिश्रीभूतमिति स्वास्थ्यविभागेन दृढीकृतम्।
सप्ताहाभ्यन्तरे उपसहस्रं जनाः अतिसार-वमनादिभिः पीडिताः आसन्। तेषु दश मृताः। ३२ रोगिणः तीव्रपरिचर्यायां वर्तन्ते।
वेनस्वेलाम् अमेरिकायाः अधिनिवेशः।
राष्ट्रपतिः पत्न्या सह अपहृतः।
राजधानीनगरमभिव्याप्य सप्त स्थानेषु अमेरिकायाः आक्रमणम्।
राष्ट्रपतिः मरुडोवर्यः भटैरावृतः वर्तते।
कारक्कास्> दक्षिणामेरिकाभूखण्डे आसकलं युद्धभीतिम् उत्पाद्य अमेरिका वेनस्वेलाम् आक्रामत्। राष्ट्रमतिक्रम्य राष्ट्रपतिं निक्कोलास् मडुरोनामकं तस्य पत्नी सीलिया फ्लोरिस् नामिकां च अपहृत्य यू एस् सेना राष्ट्रान्तरम् अगमयत्। तौ राष्ट्रभ्रष्टौ अभवतामिति यू एस् राष्ट्रपतिना डोनाल्ड ट्रम्पेनैव 'ट्रूत् सोष्यल्' द्वारा उक्तम्।
वेनस्वेलायां वर्तमानानाम् उन्मादकसंघानां यू एस् प्रति उन्मादकवस्तूनामायाताय साहाय्यं करोति इत्यारोप्य आसीत् अमेरिकायाः सैनिकप्रक्रमः। शनिवासरे प्रत्युषसि द्विवादने [प्रादेशिकसमयः] कारकास्नगरमभिव्याप्य वेनस्वेलायाः सप्त स्थानेषु यू एस् युद्धविमानानि बोम्बवर्षम् अकरोत्। षट् युद्धमहानौकाः वेनस्वेलां लक्ष्यीकृत्य विन्यस्ताः सन्ति। १५,००० यू एस् भटाः अपि सन्नद्धाः सन्ति।
इराने बहुजनप्रक्षोभः - बहवः मृताः।
अमेरिकायाः उपरोधेन जातः आर्थिकक्लेशः हेतुः।
टेहरानः> नाणकवृद्धिः, इरानीयमुद्रा रियाल् इत्यस्य मूल्यशोषणम् इत्यादिभिः जातस्य आर्थिकसङ्कटस्य हेतोः इरानराष्ट्रे आरब्धः बहुजनप्रक्षोभः अतिशक्तेन व्याप्यते। सुरक्षासेनया सह प्रतिद्वन्द्वे बहवः जनाः मृताः। मृतानां संख्या सप्त इति सूच्यते। षट् दिनेभ्यः पूर्वमारब्धे प्रक्षोभे युवकाः छात्राश्च भागं कुर्वन्तः सन्ति।
अधुना रियालस्य मूल्यम् एकेन डोलरेण सह १४ लक्षं रियाल् अस्ति। रियालस्य मूल्यशोषणमानं गतवर्षमपेक्षया ५२% अधिकमस्ति।
राष्ट्रे वर्तमानायाः अरक्षितावस्थायाः बहूनि कारणानि सूच्यन्ते।
१. अमेरिकादि राष्ट्राणामुपरोधः।
२. इरान-इस्रयेलयोः युद्धम्।
३. अमेरिकायाः आक्रमणम्।
३. रियालस्य मूल्यशोषणम्।
४. वस्तूनां मूल्यवर्धनं; आर्थिकक्लेशः।
न्यूयोर्क् नगराधिपरूपेण सोहरान् मंदानी शपथमकरोत्।
नगरस्य चरित्रे प्रथमतया इस्लामः, भारतीयवंशजश्च नगरपतिः। 
सोहरान् मंदानी शपथवाचनं करोति।
न्यूयोर्क्> यू एस् राष्ट्रस्य बृहत्तमनगरस्य न्यूयोर्कस्य नगराध्यक्षरूपेण [Mayor] डेमोक्राटिक् दलनेता सोहरान् मंदानी शपथवचनं कृत्वा पदं स्वीचकार। नगरचरित्रे प्रप्रथममेव कश्चन इस्लामधर्मीयः भारतीयवंशजश्च अधिकारं प्राप्नोति।
मान्हटन् इत्यत्र प्रशस्ते Old city hall station नामके स्थाने सम्पन्ने कार्यक्रमे खुर् आन् ग्रन्थं संस्पृश्य आसीत् तस्य शपथवाचनम्। न्यूयोर्कस्य अटोर्णी जनरल् पदीयः लटिटा जयिंसः शपथवाचनमकारयत्। तत्रत्यं पारम्पर्यमनुसृत्य द्विवारं प्रतिज्ञामकरोत्।
मंदानेः पितरौ भारते जन्म लब्ध्वा वासं कृतवन्तौ आस्ताम्। माता तु चलच्चित्रनिदेशिका मीरा नायरः पिता महमूद मंदानी कोलम्बिया विश्वविद्यालये अध्यापकः च स्तः। २०१८ तमे वर्षे सोहरानः अमेरिकानागरिकत्वं लब्धवान्।

केन्द्रिय-संस्कृतविश्वविद्यालयस्य आवासीयसंस्कृतशिक्षकप्रशिक्षणवर्गः, २०२६
केन्द्रीयसंस्कृतविश्वविद्यालयेन संस्कृतभाषाशिक्षणाय कुशलभाषाशिक्षकाणां निर्माणार्थम् अखिलभारतस्तरीयम् एकविंशतिदिवसीयम् आवासीयशिक्षकप्रशिक्षणम् आयोक्ष्यते।
प्रशिक्षणस्य उद्देश्यानि-
शैक्षिकार्हता- कस्मिन्नपि विषये स्नातकोत्तीर्णता/स्नातकोत्तरोत्तीर्णता ।
अपेक्षितार्हता- संस्कृतभाषावगमने भाषणे पठने लेखने च पटुत्वम् ।
वयोमितिः - अधिकाधिकं 35 वर्षाणि (01.06.2026 दिनाङ्कपर्यन्तम्)
आवेदनम् -
गुगलफार्ममाध्यमेन आवेदनपत्रं पूरणीयम्। आवेदनपत्रस्य Link अधः वर्तते। ईमेलमाध्यमेन पत्रालयमाध्यमेन वा प्रेषितम् आवेदनपत्रं नैव अङ्गीकरिष्यते ।
आवेदनतिथिः - 01.01.2026 दिनाङ्कतः 05.02.2026 दिनाङ्के यावत् ।
लिखितपरीक्षा- Online माध्यमेन लिखितपरीक्षा स्वीकरिष्यते। लिखितपरीक्षायां क-खण्डे 60 अङ्कानां बहुविकल्पात्मकप्रश्नाः ख-खण्डे 40 अङ्गानां च प्रबन्धात्मकप्रश्नाः भविष्यन्ति। परीक्षां लेखितुं साधैंकहोरात्मकः कालः दास्यते। परीक्षार्थिना निश्चितसमयाभ्यन्तरे परीक्षापत्रं समर्पणीयम्। ख-खण्डस्य उत्तराणि हस्तलिखितानि स्युः, टङ्कितानि उत्तरपत्राणि नैव अङ्गीकरिष्यन्ते। द्वयोः खण्डयोः उत्तरम् अनिवार्यतया लेखनीयम्। एकस्मिन्नपि खण्डे उत्तरं न लिख्यते चेत् अनुत्तीर्णता भविष्यति। केनचित् कारणेन उत्तरपत्रं न समर्पितं चेत् विश्वविद्यालयः तदर्थम् उत्तरदायी न भविष्यति। लिखितपरीक्षा 01.03.2026 तमे दिनाङ्के आयोजयिष्यते। आवेदकेभ्यः परीक्षाविषये विवरणम् ईमेलमाध्यमेन पूर्वमेव सूचयिष्यते ।
प्रश्नपत्रस्वरूपम् - शब्दरूपाणि, धातुरूपाणि, सर्वनामानि, संख्या, कृदन्ताः, पूरणप्रत्ययाः, अव्ययानि, कारकम्, वाच्यम्, सन्धिः, समासः, प्रबन्धलेखनम् इत्यादिविषयकाः प्रश्नाः भवेयुः ।
मौखिकपरीक्षा- लिखितपरीक्षायाम् अन्यूनं 50% अङ्कान् प्राप्तवद्भयः एव मौखिकपरीक्षार्थम् अवसरः दास्यते। मौखिकपरीक्षायां संस्कृतसम्भाषणक्षमतायाः अध्यापनकौशलस्य च परीक्षणं करिष्यते। मौखिकपरीक्षा मार्चमासस्य तृतीयसप्ताहे/चतुर्थसप्ताहे सम्भाव्यते। एतद्विषये अधिकं विवरणम् ईमेलमाध्यमेन प्रेषयिष्यते ।
प्रशिक्षणम्- मौखिकपरीक्षायाम् अन्यूनं 50% अङ्कान् प्राप्तवद्भयः एव प्रशिक्षणं दास्यते। प्रशिक्षणमिदम् आवासीयं भविष्यति। प्रशिक्षणवर्गम् आगन्तुं गमनागमनव्ययः प्रशिक्षार्थिभिः स्वयं निर्वाढव्यः भवेत्। प्रतिभागिभ्यः आवास भोजनव्यवस्था विश्वविद्यालयपरतया प्रशिक्षणस्थाने एव करिष्यते। प्रशिक्षार्थिभिः विश्वविद्यालयेन आयोजविष्यमाणे एकविंशतिदिवसीये प्रशिक्षणवर्गे पूर्णतया उपस्थितैः भाव्यम्, प्रशिक्षणवर्गस्य सर्वे नियमाः च दृढतया पालनीयाः। मध्येप्रशिक्षणं बहिर्गमनं सर्वथा निषिद्धम्। प्रशिक्षणस्थानं भारते यत्र कुत्रापि भवेत्। प्रशिक्षणावधेः स्थानस्य च विषये यथाकालं सूचना ईमेलमाध्यमेन प्रेषयिष्यते। प्रशिक्षणोत्तरपरीक्षाम् उत्तीर्णवत्सु केषाञ्चन वरीयताक्रमेण विश्वविद्यालयस्य अपेक्षानुगुणं संस्कृताध्ययनकेन्द्रेषु अध्यापनावसरः भवितुम् अर्हति।
आवेदनस्य सूत्रम्- https://forms.gle/vorkq1qMpmqtN7rM9
सम्पर्कसूत्रम् - 011-35010261 (प्रातः सार्धनववादनतः सायं षड्वादनपर्यन्तम्) pathatusamskritam@gmail.com
शबरिमला सुवर्णचौर्यम् सि बि ऐ अन्वेषणम् आवश्यकमिति भारतीय बुद्धिमत्ता संस्था।
पत्तनंतिट्टा> शबरिमला श्रीस्थानालयद्वारस्य, द्वारचतुष्कोणस्य द्वारपालकशिल्पस्य च सुवर्णास्तरण-चौर्यमधिकृत्य प्रकरणं विशदान्वेषणाय सि बि ऐ संस्थायै समर्पयितुं केन्द्र-बुद्धिमत्तासंस्थया निर्दिष्टम्। राज्यान्तर - राष्ट्रान्तरबन्धः प्रकरणे अस्मिन् अस्ति इत्यतः यथार्थवस्तुतां बहिरानेतुं सि बि ऐ अन्वेषणम् आवश्यकमिति केन्द्र बुद्धिमत्ता संस्थया प्रोक्तम् ।
हादिहत्याप्रकरणे अपराधी दुबाय् राष्ट्रे।
धाक्का> बङ्गलादेशे युवजनप्रक्षोभस्य अन्तरे व्यापादितः युवनेता उस्मान् षरीफ हादी इत्यस्य हत्याप्रकरणे अपराधी इति सन्दिह्यमानः फैसल् करीम मसूदः दुबाय् राष्ट्रे। प्रकरणे आत्मनः भागभाक्त्वं नास्तीति विवृण्वन् तस्य वीडियोसन्देशः दुबायतः बहिरागतः। हादेः घातकानां भारतम् अभयस्थानरूपेण वर्तते इति बङ्गलादेशस्य आरोपे जाते वृत्तान्तोSयं प्राधान्यमर्हति।
'अहं फैसल् करीम मसूदः। हादेः हत्यायां मम कोSपि सम्बन्धः नास्ति। गूढचिन्तनस्य परिणामेन अवास्तिवकतया कृतमारोपणं भवत्येतत्। तस्य हेतोः अहं दुबायं पलायितवान्' - वीडियोसन्देशे तेन कथ्यते। हत्यायाः पृष्ठतः किमपि तीव्रराजनैतिकसंघटनमिति सः आरोपयति।
शयनानुकूलितं वन्देभारतरेल् यानं सज्जम्।
गुवीहाटी-कोल्कोत्तापथे प्रथमयानसेवा।
नवदिल्ली> राष्ट्रस्य प्रथमं शयनानुकूलितं वन्देभारत एक्स्प्रस् रेल् यानं गुवीहाटीतः कोल्कोत्तापर्यन्तं विलम्बं विना सेवाम् आरप्स्यते। अचिरेण निर्वाचनाय सज्जमानयोः असम-पश्चिमवंगराज्ययोः राजधानीनगरबन्धिता अस्ति रेल् यानसेवा इत्येतत् वैशिष्ट्यमस्ति। प्रधानमन्त्री नरेन्द्रमोदी उद्घाटनं करिष्यतीति रेल् यानमन्त्री अश्विनी वैष्णवः प्रोक्तवान्।
दीर्घदूरयात्रायै अनुयुक्तमस्ति शयनानुकूलितयानस्यास्य कक्षानिर्माणम्। यात्रिकेभ्यः आधुनिकसुविधाः व्यवस्थीकृताः। यानसंघट्टननिवारणाय कवचसंविधानमप्यस्ति। अस्य वर्षस्य अन्त्ये १२ शयनानुकूलितवन्देभारतरेल् यानानि अपि सेवामारप्स्यन्ते इति रेल्यानाधिकारिभिरुक्तम्।
गासायां ३७ सन्नद्धसंघटनानां निरोधः।
जरुसलेमः> गासायां प्रवर्तमानानां ३७ सन्नद्धसंघटनानां [एन् जि ओ] गुरुवासरतः निरोधः विधास्यतीति इस्रयेलेन निगदितम्। निरोधः न करणीयः चेत् संघटनेषु प्रवर्तमानानां पालस्तानीयानां विशदांशाः देयाः इति स्पष्टीकृतम्। इस्रयेलस्य अयं निर्णयः गासायां साहाय्यवितरणे प्रतिसन्धिं जनयिष्यतीति यूरोपीयसख्येन पूर्वसूचना दत्ता।
भीकरकेन्द्राणि विनष्टानीति पहल्गामसूत्रधारः।
नवदिल्ली> ओपरेषन् सिन्दूरनामके भारतसेनाप्रक्रमे पाकिस्थाने वर्तितानि भीकरकेन्द्राणि विनष्टानीति लष्कर् ई तोय्बा संघटनस्य वरिष्ठः कमान्डर् पदीयः सैफुल्ला कसूरी उक्तवान्। 'सिन्दूर'स्यानन्तरं प्रथममेव विषयेSस्मिन् कस्यचन लष्कर् ई तोय्बा नेतुः एतादृशप्रस्तुतिः। भारतीयसुरक्षाधिकृतैः पूर्वमेव अधिगतं यत् कसूरीनामक एव पहलगाम् आक्रमणस्य सूत्रधारः। लष्करे तोय्बायाः स्थापकस्य हाफीस् सयीदस्य विश्वस्तः अनुयायी अस्ति कसूरी।
भीकरकेन्द्राणि विशीर्णानीति तेन अङ्गीक्रियते अपि भारतं विरुध्य प्रकोपनपराः प्रस्तावाः अपि तेन क्रियन्ते। काश्मीरविषयात् निवर्तनं न चिन्तितमित्यपि तस्य वीडियोसन्देशे स्पष्टीक्रियते।
आविश्वं नूतनवर्षोदयः।
शुभाशयनिर्भरं २०२६ तमं स्वीकृत्य लोकः। .jpeg)
कोच्चीनगरे सम्पन्नस्य नववत्सरोत्सवस्य दृश्यम्।
कोच्ची> प्रतीक्षां प्रत्याशां च निवेश्य विश्वस्मिन् सर्वत्र नूतनवर्षं प्रसूतम्। अत्यधिकाह्लादेन आविश्वं जनाः २०२६ तमं वर्षं स्वागतं चक्रुः।
विश्वस्मिन् प्रथमतया पसफिकसमुद्रस्थे किरिबातद्वीपराष्ट्रे आसीत् नववर्षप्रसूतिः। तदनन्तरं न्यूसिलान्टे च। लोके सर्वत्र गान-नृत्त-वर्णस्फोटकादिभिः विविधैः कार्यक्रमैः जनाः नववर्षं स्वीकृतवन्तः।
महिला टि २०
भारतस्य सम्पूर्णविजयः।
अनन्तपुरी> दलनायिका हर्मन् प्रीत कौर् इत्यस्याः कन्दुकताडनप्रभावे श्रीलङ्कां विरुध्य पञ्चमम् अन्तिमं च प्रतिद्वन्द्वं १५ धावनाङ्कैः विजित्य परम्परायां भारतं सम्पूर्णाधिपत्यं स्थापयामास - (५-०)।
अन्तिमप्रतिद्वन्द्वे भारतेन उन्नीतं १७६ इति विजयलक्ष्यम् अनुगतवत्यः श्रीलङ्कामहिलाः १६० धावनाङ्कान् समाहृत्य पराजयं स्वीकृतवत्यः। भारतस्य १५ धावनाङ्कानां विजयः। ४३ कन्दुकेषु एकं षट्कं नव चतुष्कं चाभिव्याप्य ६८ धावनाङ्कान् सम्पादितवती नायिका हर्मन प्रीता श्रेष्ठक्रीडिका अभवत्।
गासियाबादे आयुधवितरणं - दश जनाः निगृहीताः।
गासियाबादः> उत्तरप्रदेशस्थे गासियाबादे भवनेषु आयुधानि वितरणं कृतवन्तः तीव्रहिन्दुसंघटनीयाः १० जनाः आरक्षकैः निगृहीताः। 'हिन्दु रक्षा दलम्' इति संघटनस्थाः एव निगृहीताः।
मार्गेषु खड्ग-परश्वादीनि आयुधानि विक्रयणार्थं स्थापितानि इत्यस्य चित्राणि सामाजिकमाध्यमेषु प्रचरितान्यासन्। अस्याधारे आसीत् आरक्षकप्रक्रमः। बङ्गलादेशविषयान् उन्नीय आसीत् आयुधवितरणमिति आरक्षकसेनायाः डेप्यूटी सूप्रण्टपदीयः निमिष् पाटीलः प्रस्तुतवान्।
ट्रम्पाय इस्रयेलस्य शान्तिपुरस्कारः।
![]() |
| नेतन्याहुः ट्रम्पश्च। |
फ्लोरिडा> इस्रयेलस्य परमोन्नतः नागरिकपुरस्कारः 'इस्रयेल शान्तिपुरस्कारः' इत्यस्मै यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः चितः। अमेरिकायां फ्लोरिडायां सोमवासरे ट्रम्पेन सह मिलितः इस्रयेलस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहू अमुं वृत्तान्तम् उदघोषयत्।
अस्य पुरस्कारस्य ८० संवत्सराणां चरित्रे प्रथमतया एव अनिस्रेलीयः कश्चन पुरस्कारार्हः भवति। पुरस्कारः अप्रतीक्षितः अमूल्यश्चेति ट्रम्पेन प्रस्तुतम्।
खालिदा सिया दिवंगता।
धाक्का> बङ्गलादेशस्य प्रथमा महिलाप्रधानमन्त्री खालिदा सिया [८०] दिवंगता। श्वासकोशे अणुबाधया मासैकाधिककालेन धाक्कायामातुरालये परिचर्यायामासीत्।
कलुषितस्य सैन्यप्रशासनकालस्यानन्तरं राष्ट्रे लोकतन्त्रपुनःस्थापनाय मुख्यभागम् ऊढवती खालिदा सिया त्रिवारं बङ्गलादेशस्य प्रधानमन्त्रिपदमारुरोढ। बी एन् पी दलस्य अध्यक्षा आसीत् खालिदा।
खालिदायाः पतिः तथा बङ्गलादेशस्य भूतपूर्वराष्ट्रपतिः सियावुर् रह्मान् इत्यस्य शवकुटीरस्य समीपे बुधवासरे तस्याः अन्त्यशुश्रूषा सम्पद्यते। कार्यक्रमे भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः भागं करिष्यति। प्रधानमन्त्रिणं नरेन्द्रमोदिनमभिव्याप्य विविधाः लोकनेतारः अनुशोचितवन्तः।
भारत-श्रीलङ्का महिला टि२०
अन्तिमस्पर्धा अद्य।
अनन्तपुरी> भारत-श्रीलङ्कयोः महिलानां टि २० क्रिकटस्पर्धापरम्परायाः पञ्चमः अन्तिमश्च प्रतिद्वन्द्वः अद्य सायं सप्तवादनतः कार्यवट्टस्थे ग्रीन् फील्ड् क्रीडाङ्कणे सम्पत्स्यते। चतुर्षु प्रतिद्वन्द्वेषु विजयमुपलब्धवता भारतेन परम्परा स्वायत्तीकृता अस्ति। अन्तिमस्पर्धामपि स्वायत्तीकर्तुमेव भारतीयवनितानां लक्ष्यम्।
शिवगिरि तीर्थाटनम् अद्य आरभते।
उपराष्ट्रपतिः उद्घाटनं करिष्यति।
शिवगिरिः> केरले ९३ तमं दिनत्रयात्मकं शिवगिरि महातीर्थाटनं मङ्गलवासरे समारभते। प्रभाते ७. ३० वादने श्रीनारायण धर्मसंघस्य अध्यक्षः स्वामी सच्चिदानन्दः ध्वजोद्धारणं करिष्यति। ९. ३० वादने उपराष्ट्रपतिः सि पी राधाकृष्णः तीर्थाटनसम्मेलनस्य उद्घाटनं निर्वक्ष्यति। त्रिषु दिनेषु विभिन्नविषयेषु १४ सम्मेलनानि सम्पत्स्यन्ते।
मेहबूबा मुफ्ती वासकारागृहे।
श्रीनगरं> जम्मु-काश्मीरस्य भूतपूर्वमुख्यमन्त्रिणी तथा च पि डी पी दलस्य अध्यक्षा मेहबूबा मुफ्ती वासगृहे बद्धा वर्तते। जम्मु-काश्मीरे संवरणनयं [Reservation policy] विरुध्य छात्राणां प्रतिषेधे भागं करिष्यतीति तस्याः प्रस्तावस्यानन्तरमासीदयं प्रक्रमः। मेहबूबायाः पुत्री इल्तिजा मुफिती, श्रीनगरस्य संसद्सदस्यः रुहुल्ला मेहदी, पि डि पीदलस्य नेता वहीद परः इत्येते च गृहकारागारे बद्धाः सन्ति।
राष्ट्रिय बालपुरस्कारेण सम्मानिताः
सूर्यवंशी, दिनिधि, प्रग्निकाः।
आहत्य २० बालकाः पुरस्कारार्हाः जाताः। 
राष्ट्रियबालपुरस्कारेण सम्मानिताः बालाः द्रौपदी मुर्मू वर्यया सह।
नवदिल्ली> स्फोटनात्मककन्दुकताडनेन क्रिकट्मण्डले नूतनतरङ्गायितः कौमारतारः वैभव सूर्यवंशी, पारीस् ओलिम्पिक्से तरणस्पर्धायां स्ववैभवं प्रकटितवती दिनिधी देशिंगुः, गुजरातीया चतुरङ्गक्रीडिका सप्तवयस्का लक्ष्मी प्रग्निका इत्येते प्रधानमन्त्री राष्ट्रिय बालपुरस्कारान् राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः स्वीकृतवन्तः। पञ्च आरभ्य १८ वयःपर्यन्तं वर्तमानानां बालकानां कायिक-कला-धैर्य-प्रौद्योगिकादिषु मण्डलेषु सविशेषोपलब्धये राष्ट्रेण दीयमाना परमोन्नता नागरिकपुरस्कारः भवति राष्ट्रिय बालपुरस्कारः। अस्मिन् वर्षे २० बालकाः पुरस्कारार्हाः अभवन्। शुक्रवासरे राष्ट्रपतिभवने सम्पन्ने कार्यक्रमे आसीत् पुरस्कारसमर्पणम्।
क्रिकट्क्रीडानभसि नूतननक्षत्रमिति ख्यातिं प्राप्यमाणः वैभव सूर्यवंशी गतदिने विजय हसारे क्रिकट् क्रीडायां बिहाराय ८४ कन्दुकैः १९० धावनाङ्कान् सम्प्राप्तवान्। १५ वयस्का दिनिधी २०२४ तमवर्षस्य पारीस् ओलिम्पिक्से ११७ भारतीयक्रीडकासु न्यूनतमवयस्का आसीत्। २०० मीटर् फ्रीस्टैल् नामके तरणप्रतिद्वन्द्वे स्पर्धितवती। सप्तवयस्का लक्ष्मी प्रग्निका तु ऊनसप्तवयस्कानां विद्यालयीयचततुरङ्गस्पर्धायां विश्वविजेत्री आसीत्।
खालिदा सियायाः पुत्रः
तारिख् रह्मानः स्वदेशं प्रत्यागच्छत्।
प्रधानमन्त्रिपदं लक्ष्यम्।
![]() |
| तारीख रह्मानः। |
धाक्का> लण्टने १७ संवत्सराणां प्रवासजीवितं समाप्य बङ्गलादेश नाषणलिस्ट् पार्टी [बी एन् पी] इत्यस्य प्रवर्तनाध्यक्षः तथा भूतपूर्व प्रधानमन्त्रिण्याः खालिदा सियायाः पुत्रश्च तारिख् रह्मानः [६०] जन्मदेशं प्रत्यागतवान्। फेब्रुवरी १२ तमे दिनाङ्के बङ्गलादेशे सामाजिकनिर्वाचने उद्घोषिते तारिखस्य प्रतिनिवर्तने राजनैतिकप्राधान्यं वर्धते। निर्वाचने बी एन् पी दलस्य विजयः भविष्यति चेत् तारिखः स्यात् प्रधानमन्त्री।
गुरुवासरे विमानेन धाक्कां प्राप्तवन्तं तारिखं स्वीकर्तुं दशसहस्रशः बी एन् पी प्रवर्तकाः आगताः। नग्नपादाभ्यामासीत् तस्य बङ्गलभूमौ अवतारः इत्येतत् तस्य राजनैतिकप्रवेशस्य परोक्षसूचना इति कल्प्यते।