गासियाबादे आयुधवितरणं - दश जनाः निगृहीताः।
गासियाबादः> उत्तरप्रदेशस्थे गासियाबादे भवनेषु आयुधानि वितरणं कृतवन्तः तीव्रहिन्दुसंघटनीयाः १० जनाः आरक्षकैः निगृहीताः। 'हिन्दु रक्षा दलम्' इति संघटनस्थाः एव निगृहीताः।
मार्गेषु खड्ग-परश्वादीनि आयुधानि विक्रयणार्थं स्थापितानि इत्यस्य चित्राणि सामाजिकमाध्यमेषु प्रचरितान्यासन्। अस्याधारे आसीत् आरक्षकप्रक्रमः। बङ्गलादेशविषयान् उन्नीय आसीत् आयुधवितरणमिति आरक्षकसेनायाः डेप्यूटी सूप्रण्टपदीयः निमिष् पाटीलः प्रस्तुतवान्।