OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 31, 2025

 महिला टि २०

भारतस्य सम्पूर्णविजयः। 


अनन्तपुरी>  दलनायिका हर्मन् प्रीत कौर् इत्यस्याः कन्दुकताडनप्रभावे श्रीलङ्कां विरुध्य पञ्चमम् अन्तिमं च प्रतिद्वन्द्वं १५ धावनाङ्कैः  विजित्य परम्परायां भारतं सम्पूर्णाधिपत्यं स्थापयामास - (५-०)। 

  अन्तिमप्रतिद्वन्द्वे भारतेन उन्नीतं १७६ इति विजयलक्ष्यम् अनुगतवत्यः श्रीलङ्कामहिलाः १६० धावनाङ्कान् समाहृत्य पराजयं स्वीकृतवत्यः। भारतस्य १५ धावनाङ्कानां विजयः। ४३ कन्दुकेषु एकं षट्कं नव चतुष्कं चाभिव्याप्य ६८  धावनाङ्कान् सम्पादितवती नायिका हर्मन प्रीता श्रेष्ठक्रीडिका अभवत्।