OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 29, 2025

 राष्ट्रिय बालपुरस्कारेण सम्मानिताः

सूर्यवंशी, दिनिधि, प्रग्निकाः।

आहत्य २० बालकाः पुरस्कारार्हाः जाताः। 

राष्ट्रियबालपुरस्कारेण सम्मानिताः बालाः द्रौपदी मुर्मू वर्यया सह।

नवदिल्ली>  स्फोटनात्मककन्दुकताडनेन क्रिकट्मण्डले नूतनतरङ्गायितः कौमारतारः वैभव सूर्यवंशी, पारीस् ओलिम्पिक्से तरणस्पर्धायां  स्ववैभवं प्रकटितवती दिनिधी देशिंगुः, गुजरातीया चतुरङ्गक्रीडिका सप्तवयस्का  लक्ष्मी प्रग्निका इत्येते प्रधानमन्त्री राष्ट्रिय बालपुरस्कारान् राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः स्वीकृतवन्तः। पञ्च आरभ्य १८ वयःपर्यन्तं वर्तमानानां बालकानां कायिक-कला-धैर्य-प्रौद्योगिकादिषु मण्डलेषु  सविशेषोपलब्धये राष्ट्रेण दीयमाना परमोन्नता नागरिकपुरस्कारः भवति राष्ट्रिय बालपुरस्कारः। अस्मिन् वर्षे २० बालकाः पुरस्कारार्हाः अभवन्।  शुक्रवासरे राष्ट्रपतिभवने सम्पन्ने कार्यक्रमे आसीत् पुरस्कारसमर्पणम्।

  क्रिकट्क्रीडानभसि नूतननक्षत्रमिति ख्यातिं प्राप्यमाणः वैभव सूर्यवंशी गतदिने विजय हसारे क्रिकट् क्रीडायां बिहाराय ८४ कन्दुकैः १९० धावनाङ्कान् सम्प्राप्तवान्। १५ वयस्का दिनिधी २०२४ तमवर्षस्य पारीस् ओलिम्पिक्से ११७ भारतीयक्रीडकासु न्यूनतमवयस्का आसीत्। २०० मीटर् फ्रीस्टैल् नामके तरणप्रतिद्वन्द्वे स्पर्धितवती। सप्तवयस्का लक्ष्मी प्रग्निका तु ऊनसप्तवयस्कानां विद्यालयीयचततुरङ्गस्पर्धायां विश्वविजेत्री आसीत्।