खालिदा सियायाः पुत्रः
तारिख् रह्मानः स्वदेशं प्रत्यागच्छत्।
प्रधानमन्त्रिपदं लक्ष्यम्।
![]() |
| तारीख रह्मानः। |
धाक्का> लण्टने १७ संवत्सराणां प्रवासजीवितं समाप्य बङ्गलादेश नाषणलिस्ट् पार्टी [बी एन् पी] इत्यस्य प्रवर्तनाध्यक्षः तथा भूतपूर्व प्रधानमन्त्रिण्याः खालिदा सियायाः पुत्रश्च तारिख् रह्मानः [६०] जन्मदेशं प्रत्यागतवान्। फेब्रुवरी १२ तमे दिनाङ्के बङ्गलादेशे सामाजिकनिर्वाचने उद्घोषिते तारिखस्य प्रतिनिवर्तने राजनैतिकप्राधान्यं वर्धते। निर्वाचने बी एन् पी दलस्य विजयः भविष्यति चेत् तारिखः स्यात् प्रधानमन्त्री।
गुरुवासरे विमानेन धाक्कां प्राप्तवन्तं तारिखं स्वीकर्तुं दशसहस्रशः बी एन् पी प्रवर्तकाः आगताः। नग्नपादाभ्यामासीत् तस्य बङ्गलभूमौ अवतारः इत्येतत् तस्य राजनैतिकप्रवेशस्य परोक्षसूचना इति कल्प्यते।
.webp)