OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 28, 2025

 खालिदा सियायाः पुत्रः

तारिख् रह्मानः स्वदेशं प्रत्यागच्छत्। 

प्रधानमन्त्रिपदं लक्ष्यम्। 

तारीख रह्मानः।

धाक्का> लण्टने १७ संवत्सराणां प्रवासजीवितं समाप्य बङ्गलादेश नाषणलिस्ट् पार्टी [बी एन् पी] इत्यस्य प्रवर्तनाध्यक्षः तथा  भूतपूर्व प्रधानमन्त्रिण्याः खालिदा सियायाः पुत्रश्च तारिख् रह्मानः [६०] जन्मदेशं प्रत्यागतवान्। फेब्रुवरी १२ तमे दिनाङ्के बङ्गलादेशे सामाजिकनिर्वाचने उद्घोषिते  तारिखस्य प्रतिनिवर्तने राजनैतिकप्राधान्यं वर्धते। निर्वाचने बी एन् पी दलस्य विजयः भविष्यति चेत् तारिखः स्यात् प्रधानमन्त्री। 

  गुरुवासरे विमानेन धाक्कां प्राप्तवन्तं तारिखं स्वीकर्तुं दशसहस्रशः  बी एन् पी प्रवर्तकाः आगताः। नग्नपादाभ्यामासीत् तस्य बङ्गलभूमौ अवतारः इत्येतत् तस्य राजनैतिकप्रवेशस्य परोक्षसूचना इति कल्प्यते।