OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, December 29, 2025

 मेहबूबा मुफ्ती वासकारागृहे।

श्रीनगरं> जम्मु-काश्मीरस्य भूतपूर्वमुख्यमन्त्रिणी तथा च  पि डी पी दलस्य अध्यक्षा  मेहबूबा मुफ्ती वासगृहे बद्धा वर्तते। जम्मु-काश्मीरे संवरणनयं [Reservation policy] विरुध्य छात्राणां प्रतिषेधे भागं करिष्यतीति तस्याः प्रस्तावस्यानन्तरमासीदयं प्रक्रमः। मेहबूबायाः पुत्री इल्तिजा मुफिती, श्रीनगरस्य  संसद्सदस्यः रुहुल्ला मेहदी, पि डि पीदलस्य नेता वहीद परः इत्येते च गृहकारागारे बद्धाः सन्ति।