OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, December 31, 2025

 ट्रम्पाय इस्रयेलस्य शान्तिपुरस्कारः।

नेतन्याहुः ट्रम्पश्च। 

फ्लोरिडा>  इस्रयेलस्य परमोन्नतः नागरिकपुरस्कारः   'इस्रयेल शान्तिपुरस्कारः' इत्यस्मै यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः चितः। अमेरिकायां फ्लोरिडायां सोमवासरे ट्रम्पेन सह मिलितः इस्रयेलस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहू अमुं वृत्तान्तम् उदघोषयत्। 

  अस्य पुरस्कारस्य ८० संवत्सराणां चरित्रे प्रथमतया एव अनिस्रेलीयः कश्चन पुरस्कारार्हः भवति। पुरस्कारः अप्रतीक्षितः अमूल्यश्चेति ट्रम्पेन प्रस्तुतम्।