ट्रम्पाय इस्रयेलस्य शान्तिपुरस्कारः।
नेतन्याहुः ट्रम्पश्च।
फ्लोरिडा> यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः इस्रयेलस्य परमोन्नतः नागरिकपुरस्कारः 'इस्रयेल शान्तिपुरस्कारः' इत्यस्मै चितः। अमेरिकायां फ्लोरिडायां सोमवासरे ट्रम्पेन सह मिलितः इस्रयेलस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहू वृत्तान्तमेतत् उदघोषयत्।
अस्य पुरस्कारस्य ८० संवत्सराणां चरित्रे प्रथमतया एव अनिस्रेलीयः कश्चन पुरस्कारार्हः भवति। पुरस्कारः अप्रतीक्षितः अमूल्यश्चेति ट्रम्पेन प्रस्तुतम्।