दिल्ली।
दिल्ली मद्यनीतिक्रमप्रकरणं
अरविन्द केज्रिवालः सहापराधिनश्च अपराधविमुक्ताः। 
अपराधविमुक्तविध्यनन्तरं माध्यमानां पुरतः भाषमाणः केज्रिवालः विकाराधीनः जायते।
नवदिल्ली> आम् आद्मी पार्टी [ए ए पी] इति राजनैतिकदलस्य अस्तित्वप्रतिसन्धेः कारणभूते मद्यनयप्रकरणे भूतपूर्वः दिल्लीमुख्यमन्त्री अरविन्द केज्रिवालः, भूतपूर्वः उपमुख्यमन्त्री मनीष सिसोदिया, बी आर् एस् दलनेत्री के कविता इत्यादयः २३ अपराधिनः निरपराधिनः इति आदिश्य सविशेषनीतिपीठेन विनिर्मुक्ताः।
अपराधिषु एकस्मिन्नपि नाम्नि सि बी ऐ संस्थया आरोपिताः अपराधाः प्रथमदृष्या अपि नावस्थाप्यन्ते इति सविशेषन्यायालयस्य न्यायाधिपः जितेन्द्र सिंहः प्रस्तुतवान्। सि बी ऐ संस्था न्यायालयस्य निशितविमर्शविधेया अभवत्।

.webp)









.jpeg)