केरलम्।
भूतपूर्वः केन्द्रमन्त्री, प्रतिभाधनः सदस्यः
के पी उण्णिकृष्णः यशश्शरीरः।
कोष़िक्कोट्> धर्मेतरराष्ट्रवादस्य अग्रणीः, विमलः समाजहितैषी, भूतपूर्वः केन्द्रमन्त्री, वरिष्ठः कोण्ग्रस् नेता च के पी उण्णिकृष्णः [८९] दिवंगतः।कोष़िक्कोटस्थे 'पन्नियङ्करा' प्रदेशस्थे पत्मालयमिति स्वभवने आसीत्तस्य अन्त्यम्। अन्त्येष्टिकर्माणि बुधवासरे कोष़िक्कोटस्थे मनारी श्मशाने सम्पद्यते।
१९७१ तः १९९६तमपर्यन्तं २५ वर्षाणि यावत् वटकरा लोकसभामण्डलस्य सदस्यः आसीत् के पी उण्णिकृष्णः। वि पि सिंहस्य मन्त्रिमण्डले उपरितलगमनागमनं, वार्तावितरणम् इत्यादिविभागेषु 'काबिनट्'पदीयः मन्त्री आसीत्। १९८० - '९१ कालखण्डे वामपक्षदलस्य सदस्यरूपेण आसीत् लोकसभाप्रातिनिध्यम्। कोण्ग्रसदले जातः विच्छेदः आसीत् तस्य विरुद्धपक्षप्रवेशः। किन्तु १९९४ तमे वर्षे मातृसंघटनं प्रतिनिवृत्तः अपि ततः प्रभृति राजनैतिकमण्डले निष्प्रभः अभवत्।
भारतीयलोकतन्त्रस्य दीपस्तम्भेषु अन्यतमः अस्ति के पी उण्णिकृष्णः।

.jpeg)


.jpeg)





.webp)

