भारते अद्य वाक्सिनीकरणसमारम्भं - प्रधानमन्त्री उद्घाटयिष्यति।
नवदिल्ली> विश्वस्मिन् बृहत्तमा कोविड्वाक्सिनीकरणकरणपरियोजना अद्य भारते प्रारभते। सर्वेषु राज्येषु प्रभाते १०.३० वादने प्रतिरोधसूचीप्रयोगः आरभ्यते। अस्याः परियोजनायाः समुद्घाटनं प्रधानमन्त्री नरेन्द्रमोदी वीडियो कोण्फ्रन्स् द्वारा करिष्यति।OUR YouTube Channel 1. SampratiVartah |
marquee
Saturday, January 16, 2021
योगक्षेममालक्ष्य केरलस्य आयव्ययपत्रकम्।
अनन्तपुरी> वर्तमानभूतस्य केरलसर्वकारस्य अन्तिमे आयव्ययपत्रके सामान्यजनानां योगक्षेमकराः परियोजनाः प्रख्यापिताः। कोविड्काले आर्थिकप्रतिसन्धेः रूक्षतया राजस्वधनोदये १८.७७ प्रतिशतस्य न्यूनता जाता। राजस्वर्णः प्रतिशतं २.९४ , अधिक ऋणबाध्यतया धनर्णः प्रतिशतं ४.२५ इति च उच्चः जातः।
आगाम्यार्थिकसंवत्सरे १,२८,३७५कोटिरूप्यकाण्येव प्रतीक्षितायः। व्ययस्तु १,४५,२८६ कोटि रूप्यकाणि च। ११६४कोटिरूप्यकाणां नूतनव्ययः प्रख्यापितः। १९१कोटेः कराश्वासः दत्तः। आगामिविधानसभानिर्वाचनमालक्ष्य निरर्थकानि वाग्दानानीति विपक्षेण उपहसितम्।
Friday, January 15, 2021
८३ तेजस् युद्धविमानानि क्रेतुम् अनुज्ञा दत्ता।
नवदिल्ली> भारतेन तद्देशीयतया विकासितानि ७३ 'तेजस्'नामकयुद्धविमानानि १० परिशीलनविमानानि च क्रेतुं मन्त्रिसभायाः सुरक्षाकार्यसमित्या अनुज्ञा विधत्ता। ४५,६९६कोटिरूप्यकाणि व्ययः प्रतीक्ष्यते।।
भाविनि व्योमसेनायाः शक्तिस्रोतरूपेण वर्तमानानि भविष्यन्ति तेजस्युद्धविमानानीति रक्षामन्त्रिणा राजनाथसिंहेन प्रस्तुतम्।
Wednesday, January 13, 2021
वाक्सिनप्रयोगाय भारतं सज्जं - प्रथमसोपानस्य व्ययः केन्द्रसर्वकारेण।
नवदिल्ली> कोविड् १९ रोगस्य प्रत्यौषधसूचीप्रयोगस्य प्रथमसोपानाय भारतं सर्वथा सज्जमस्तीति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रस्तुतम्। वाक्सिनीकरणस्य सिद्धतामवलोकयितुं समावेशिते मुख्यमन्त्रिणामुवेशने भाषमाणः आसीत् मोदिवर्यः। शनिवासरे प्रक्रियेयमारभ्यते।
प्रथमसोपाने स्वास्थ्यप्रवर्तकाः कोविड्युद्धस्य सेनामुखे वर्तमानाः च अभिव्याप्य त्रिकोटिपरिमिताः भटाः वाक्सिनार्हाः भविष्यन्ति। अस्य व्ययः सर्वः केन्द्रसर्वकारेणैव वक्ष्यतीति प्रधानमन्त्रिणा उक्तम्।
कोवाक्सिन्, कोविषील्ड् नामकं वाक्सिनद्वयमेव वितरणाय सज्जमस्ति। कतिपयमासाभ्यन्तरे दशकोटिजनेभ्यः वाक्सिनदानं लक्ष्यीक्रियते। राजनैतिकप्रवर्तकेभ्यः यथाकालं वाक्सिनं लप्स्यते इति प्रधानमन्त्रिणा प्रस्तुतम्।
विद्युद्याननिर्माणं नूतनसरण्याम्; बंगलूरु देशे निर्माणकेन्द्रम् उद्घाट्यते।
बंगलूरु> भारते कारयान निर्माणं विक्रयणं च समारभ्यते। तदर्थं विद्युत्कारयान-निर्माण-संस्थया 'टेस्ल' इत्याख्यया बंगलूरु मध्ये कार्यालयः समारब्धः। २०२१ संवत्सरे विद्युत्कार्यान निर्माणं समारब्स्यते इति आवेदनं पूर्वमासीत्। अनेन विद्युत्कार्यानानां विक्रयणं भरते बहुगुणितं भविष्यति इति यान प्रेमिणः चिन्तयन्ति।
Monday, January 11, 2021
स्पेयिन् देशे महान् हिमपातः। जनाः वाहनेन सह हिमस्य अधः बन्धितः।
माड्रिड्> कठिनहिमपातेन अतिशीतवातेन च स्पेयिन् प्रदेशस्थाः पीडिताः भवन्ति। चत्वारः जनाः मृताः इति आवेदनम् आगच्छति। सहस्राधिकाः रेल् निस्थानेषु विमान-निलयेषु च बन्धिताः। रेल्-विमान सेवा स्थगिता। फ्यूवेन्गिरोल प्रदेशे नद्यां जलोपप्लवः अभवत् इत्यनेन प्रवाहे कार् यानानि विनष्टानि। यानात् बहिरागन्तुम् अशक्तौ द्वौ मृतौ। अन्यः एकः हिम-घण्डस्य अधस्तात् मृतावस्थायां प्रत्यभिज्ञातः। भवनरहितः एक: अपि मृतानां गणेषु अन्तर्भवति। राज्येषु सर्वत्र पूर्वसूचना प्रदता अस्ति।
सप्तराज्येषु पक्षिज्वरः स्थिरीकृतः।
नवदिल्ली> भारतस्य सप्तसु राज्येषु 'एवियन् इन्फ्लुवन्सा' नामकः पक्षिज्वरः दृढीकृतः। उत्तरप्रदेशः, केरलं, राजस्थानं, मध्यप्रदेशः, हिमाचलप्रदेशः, हरियानं, गुजरातः इत्येतेषु राज्येषु एव पक्षिज्वरः दृढीकृतः। दशसहस्रशः कुक्कुटाड्यादयः ग्राम्यपक्षिणः अन्ये पतगाश्च गतसाप्ताहिके मृत्युभूताः। शनिवासरे विविधराज्येषु उपपञ्चसहस्रं पक्षिणः मृताः। राष्ट्रस्थासु मृगशालासु परिसरेषु वा रोगः स्थिरीक्रियते चेत् प्रतिदिनावेदनं केन्द्रमृगशालासंस्थां प्रति समर्पणीयमिति निर्दिष्टमस्ति।
Sunday, January 10, 2021
लडाक् सीमा उल्लङ्घितम्; चीनस्य सैनिकः ग्रहीतः।
श्रीनगरम्> लडाक् सीमाप्रदेशे भारतसीमा चीनस्य सैनिकेन उल्लङ्घितम्। सः भारतसेनया ग्रहीतः। लडाक्कस्य रेसङ्ग ला मण्डले दक्षिण पाङ्गोङ् तटाक समीपे ह्यः प्रातः एव सीमानम् उल्लङ्घयत्। विगते संवत्सरे मण्डले सङ्घर्षः सञ्जातः आसीत्। तदनन्तरम् उभयोः पक्षतः तस्मिन् प्रदेशे अहनिशं निरीक्षणं प्रचलितम् अस्ति।
Saturday, January 9, 2021
लण्टन् नगरे प्रतित्रिंशत् जनेषु एकः इति क्रमेण कोविड् रोगः।
लण्टण् ☰ ब्रिट्टणस्य राजधान्यां लण्टणे कोविड् रोगव्यापनं रूक्षतया वर्तते इति आवेद्यते। प्रतित्रिंशत् जनेषु एकः रोगबाधितः इति प्रकारेण रोगः व्याप्तः अस्ति इति नगरपालेन सादिख् खानेन उक्तम्। रोगिणाम् आधिक्येन चिकित्सालये स्थलपरिमितिः विना विलम्बं स्यात् इत्यपि तेन संसूचितम्। कोविड्रोग भीत्या नगरं विपदि पतितम् पतितम् । चिकित्साविधयः यथायोग्यं न प्रचलन्ति चेत् स्थितिः नियन्त्रणातीता भविष्यति। जनाः मृत्युवशं गच्छेयुः। गतसप्ताहापेक्षया २७% जनाः एव बाधिताः सन्ति।
Friday, January 8, 2021
कोविड्-रोगोत्पत्तिः - विशेषज्ञानां सङ्घस्य प्रवेशं निषिध्य चीनः।
जनीव> कोरोण वैराणोः उत्पत्तिमधिकृत्य अन्वेष्टुं चीनं प्रति विशेषज्ञाः गच्छन्तः सन्ति। किन्तु राष्टे प्रवेशनाय चीनस्य सर्वकारेण अनुज्ञा न प्रदत्ता इति विश्व-स्वास्थ्य-सङ्घटनस्य अध्यक्षः टेड्रोस् अथानों गेब्रियेसूस् अवदत्। कतिपयमासपर्यन्तं दीर्घिताः चर्चायाः अन्ते दश विशेषज्ञाः वैज्ञानिकाः एवः अस्मिन् सप्ताहे अनुसन्धानाय चीनं गच्छन्ति। द्वौः चीनं प्रति प्रस्थानं कृतौ च। किन्तु विषयस्य प्राधान्यं ज्ञात्वा इतःपर्यन्तं चीनः कोऽपि प्रक्रमः न स्वीक्रियते इति च स अवदत्॥
Wednesday, January 6, 2021
खत्तरं प्रति उपरोधः निवर्तितः।
रियाद्> खत्तर् राष्ट्रं प्रति सौदिम् अभिव्याप्य चतुर्भिः राष्ट्रैः विहितः उपरोधः निवर्तितः। ईजिप्ट्, यू ए ई इत्यादिभिः सख्यराष्ट्रैः सार्धत्रिसंवत्सरात्पूर्वमेव उपरोधः विहितः।
४१ तम जि सि सि शिखरसम्मेलनं रियादे समाप्तम्। तत्र सौदिविदेशकार्यमन्त्रिणा एव खत्तरं विरुध्य उपरोध-निवर्तनमधिकृत्य विज्ञापितम्।
Tuesday, January 5, 2021
देशस्य राजधान्यां नवदिल्ल्यां कृषकसङ्घटनैः साकं कृषिविधिमालक्ष्य प्रशासनेन सप्तमस्तरीया चर्चा समनुष्ठिता
नवदिल्ली> केन्द्रप्रशासनेन देशस्य राजधान्यां नवदिल्ल्यां कृषकसङ्घटनैः साकं कृषिविधिमालक्ष्य सप्तमस्तरीया समनुष्ठिता। अत्रावसरे केन्द्रीयः कृषिमन्त्री नरेन्द्रसिंहतोमरः रेलमन्त्री पीयूषगोयलः कृषकसङ्घटनानां नेतारश्चोपस्थिताः अवर्तन्त। उपवेशनात् प्राक् कृषिमन्त्रिणा निगदितं यत् प्रशासनं कृषकणां समस्यानां समाधानाय प्रतिबद्धमस्ति। अथ च पक्षद्वयेन सद्भावपूर्ण-समाधानाय प्रयतितव्यमिति। उपवेशनस्य पश्चात् वार्ताहरसम्मेलने कृषिमन्त्री अवोचत् यत् प्रशासने कृषकाणां विश्वासो वर्तते। कृषकैरपि प्रशासनमध्यर्थितं यत् शीघ्रं समाधानामादय आन्दोलनसमापनाय प्रयासं कुर्यात्। विषयेस्मिन् अष्टम चरणपरिचर्चायै शुक्रवासरे उपवेशनं भविष्यति।
<वार्तहरः -रुषोत्तमशर्मा नव-देहली>
Monday, January 4, 2021
केन्द्रप्रशासनमद्य नवदिल्ल्यां कृषकसङ्घटनैः साकं कृषिविधिमालक्ष्य अग्रिमचरणवार्तां करिष्यति।
नवदिल्ली> केन्द्रप्रशासनम् अद्य नवदिल्ल्यां कृषकसङ्घटनैः साकं कृषिविधिमालक्ष्य अग्रिमचरणवार्तां करिष्यति । इतः प्राक् गतमासस्य त्रिंशत् दिनाङ्के प्रशासनस्य कृषकसङ्घटनानां च मध्ये षट् स्तरीया परिचर्चाभवत्। तस्मिन् दिने चर्चावसरे कृषिमन्त्रिणा नरेन्द्रसिंहतोमरेण कृषकनेतारः आश्वासिताः यत् प्रशासनं तेषां समस्यानां समाधानाय प्रतिबद्धमस्ति। अथ च पक्षद्वयेन सद्भावपूर्ण-समाधानाय प्रयतितव्यमिति। अमुनोक्तं यदुपवेशने विषयचतुष्टये साहमत्यं सञ्जातम्।
श्रीतोमरेणोक्तं यत् प्रथमं प्रकरणं पर्यावरणसम्बद्धाध्यादेशस्य प्रवर्ततनं द्वितीयं च विद्युदधिनियेन सम्बद्धम् अवर्तत्॥
<वार्ताहरः - पुरुषोत्तमशर्मा नव दिल्ली>
Sunday, January 3, 2021
कोविड् प्रतिरोधौषधविषयं राजनैतिकतया पश्यन्ति - स्वास्थ्यमन्त्री हर्षवर्धनः॥
नवदिल्ली> कोविड् प्रतिरोधौषधविषयं विपक्षिणः राजनैतिकतया पश्यन्ति इति दुःखकरम् इति स्वास्थ्यमन्त्री हर्षवर्धनः अवदत्। भारत बयोटेक् इत्यस्य 'कोवाक्सिन्' भारते त्वरितोपयोगाय अनुज्ञा प्राप्ता। विषये अस्मिन् अन्ये विपक्षदलनेतारः विप्रतिपत्तिं प्रकाशयन्ति।
Saturday, January 2, 2021
भारत-पाकिस्थानाभ्याम् आणवकेन्द्राणां पट्टिका परस्परं प्रतिगृह्णीता।
इस्लामबादः> भारते पाकिस्थाने च वर्तमानानाम् आणवकेन्द्राणां पट्टिका उभाभ्यां राष्ट्राभ्यां मिथः स्वीकृता। १९८८ डिसम्बरमासे हस्ताक्षरक्षरीकृतं सन्धिमनुसृत्य एव पट्टिकायाः परस्परग्रहणं सम्पन्नम्। १९९२ तमवर्षादारभ्य जनुवरिमासस्य प्रथमे दिने इयं प्रक्रिया अनुवर्तते।
आणवसज्जीकरणेषु परस्पराक्रमणनिरोध एव पूर्वोक्तसन्धेः सारः। सन्धेः द्वितीये अनुच्छेदे परस्परपट्टिकाविनिमयः विहितः वर्तते।
केरलेषु विद्यालयाः उद्घाटिताः।
कोच्ची> केरले १०, १२ कक्ष्यास्थानां कृते विद्यालयाः नववत्सरदिने उद्घाटिताः। सर्वकारस्य कोविड्सुरक्षामार्गनिर्देशान् अनुसृत्य एव पाठ्यपाठनादीनि सञ्चालनीयानि। छात्राणां तथा शिक्षकानां च सुरक्षामालक्ष्य मार्गनिर्देशाः विज्ञापिताः।
एकस्मिन् काले ५०% छात्राणां कृते भवेत् कक्ष्याचालनम्। तत्तु होरात्रयं भविष्यति। ततःपरं अणुनाशनं कृत्वा अवशिष्टेभ्यः ५०% छात्रेभ्यः कक्ष्या चालनीया।
जनवरी प्रथमदिनादारभ्य मार्च्मासस्य १६ दिनाङ्कपर्यन्तम् एवं विधं सन्देहनिवारणाय प्रायोगिक-परीक्षापरिशीलनाय च रक्षाकर्तृृृणामनुज्ञया विद्यालये अध्ययनं कर्तुमर्हन्ति छात्राः।
Friday, January 1, 2021
वाहनानां फास्टाग् अनिवार्यं भविष्यति। फेडरल् बैंकस्य सुविधा सम्प्रतिवार्तया सज्जीकृता।
स्वगृहे सुविधायाः लब्ध्यर्थं इयं Link उपयोक्तुं शक्यते (http://wa.me/+919400417084 इति सङ्ख्या यां अधो निर्दिष्टानां प्रमाणानां चित्राणि प्रेषणीयानि। 1) Aadhar card 2) RC book 3) Photo of vehicle *front* and *side* view. And 4) Date of Birth 5) Mail Id. 6) Mobile no. *FasTag Delivery*👍*Free Home delivery* available.) +919400417084 इति वाट्साप् सङ्ख्यायां सम्प्रति वार्तया सेवा समारब्धा अस्ति।
Thursday, December 31, 2020
एदन् विमाननिलये भीकाराक्रामणं १३ जनाः निहताः। घटना प्रधानमन्त्रिणः विमानावतरण सन्दर्भे।
Wednesday, December 30, 2020
कोविड्मरणानि युगलत्रितयमभ्युपगम्य रूस् राष्ट्रम्।
मोस्को> रूस् राष्ट्रे कोविड्मरणानि पूर्नप्रख्यापितात् त्रिगुणितमधिकं जातानीति दृढीकरणम्। रूस् राष्ट्रस्य उपप्रधानमन्त्री तत्यान गोलिकोवा इत्येष एव ईदृशमभ्युपगमं कृतवान्। ५५,००० जनाः कोविड्बाधया मृताः इत्यासीत् राष्ट्रस्याधिकारिकप्रस्तावः।
किन्तु १.८९ लक्षं जनाः मृताः इति नूतनः वृत्तान्तः। अनेन यू एस् ब्रसीलराज्ययोरनन्तरं कोविड्मृत्युसंख्यायां रूस् तृतीयं स्थानं वहति। रूस्राष्ट्रेण स्वकीयविकसितस्य प्रत्यौषधस्य 'स्फुट्निक्-५' नामकस्य सूचीप्रयोगः तत्र आरब्धः अस्ति।
नूतनः कोविड्रोगः अधिकराष्ट्रेषु व्याप्यते।
वंशविपरिणामभूतः कोविड्रोगः अधिकेषु राष्ट्रेषु व्याप्यते। ब्रिट्टने प्रत्यभिज्ञातः अयं विषाणुः इदानीं दक्षिणाफ्रिक्का , अयर्लान्ट्, नेतर्लान्ट्, होङ्कोङ्, जापानं, इस्रयेल् , लबनन्, सिङ्गप्पूर्, आस्ट्रेलिया, दक्षिणकोरिया, पाकिस्तानं, भारतं, कनाडा, यूरोपियन् देशेषु च व्याप्तः अस्ति।
समीपकाले ब्रिट्टनात् प्रत्यागतेभ्यः चतुर्भ्यः पाक्किस्थानीयेभ्यः कराच्यां रोगः दृढीकृतः। अतिशीघ्रं व्याप्यमानस्य वैराणोः व्यापनं निरोद्धुं ५० अधिकैः राष्ट्रैः ब्रिट्टनात् यात्रानिरोधः विधत्तः। ब्रिट्टने तु प्रतिदिनं उपपञ्चलक्षं जनेषु कोविड्परिशोधना क्रियते
क्रोयेष्यदेशे भूचलनम्। बहवः जनाः क्षताः। स्लोवेनिय आणवनिलयः पिधानं कृतम्।
Tuesday, December 29, 2020
यूरोप् राष्ट्रेषु कोविड् प्रतिरोधौषधस्य वितरणं समारब्धम्।
चित्रम् AP- इट्टलिदेशे कोविड्वाक्सिन् प्रयोगसन्दर्भः॥ब्रसल्स्> कोविड्१९ प्रतिरोधौषधस्य प्रयोगस्य समारम्भः यूरोप् राष्ट्रस्य विविध भागेषु समारब्धः। फैसर् बयोण् टेक् संस्थायाः औषधमेव वितरति। महारोगात् रक्षां प्राप्तुं प्रतिरोधौषध-प्रयोगः अनिवार्य: इति युरोप् ऐक्य-सङ्घटनायोगेन ट्विट्टर् द्वारा प्रकाशितम्। इतः पर्यन्तं यूरोप् राष्ट्रेषु सार्ध द्विकोटि-जनाः रोगबाधिताः सन्ति।
Monday, December 28, 2020
गूगिलस्य प्रतियोगी रूपेण नीति आयोगस्य 'डिजिबोक्स्'।
अपरिमित-चीत्रसमारोहणं २०२१जूण् मासस्य २१ दिनाङ्कतः न लप्स्यते इति गूगिलस्य ख्यापनं समागतम्। तदनन्तरं झटिति एव अवतरिता सुविधा भवति नीति आयोगस्य 'डिजिबोक्स्'। २० जि बि निक्षेपस्थानं (Storage) शुल्कं विना लभते इत्यस्ति विशेषता। प्रतिमासं ३० रूप्यकाणि दीयते चेत् १०० जि बि पर्यन्तं लप्स्यते। गूगिलस्य १०० जि बि निक्षेपस्थानाय १३० रूप्यकाणि दातव्यानि। शुल्कं विना १५ जि बि एव लभते। भारते एव टंकिततांशः संरक्षणीयः राष्ट्र-सुरक्षा स्थापनीया इत्यादि लक्ष्याः सन्ति इति डिजिबोक्सस्य सि इ ओ अर्णब् मित्रेण उक्तम्।
भारतराष्ट्रेषु चतुर्षु राज्येषु कोविड् प्रतिरोधौषधस्य 'ड्रै रण्'
नवदिल्ली> आराष्ट्रं कोविड् रोगस्य प्रत्यौषधवितरणस्य भागतया चतुर्षु राज्येषु 'ड्रै रण्' करिष्यते। अध्रा, असं, गुजरात्, पञ्चाब् राज्येषु भवति 'ड्रै रण्'। प्रत्येकं राज्ये द्वयोः जनपदयोः जनपदस्तरीय आतुरालयः सामूहिक-स्वास्थ्यकेन्द्रः प्राथमिक-स्वास्थ्यकेन्द्रः नगर ग्राम निजीय स्वास्थ्यमण्डलाः इति पञ्चधा विभज्य सज्जीकृता आसन्। अद्य श्वः च 'ड्रै रण्' भविष्यति। औषधवितरण-वेलासु काः अपि समस्याः भविष्यन्ति वा इति ज्ञातुमेव भवति 'ड्रै रण्' प्रक्रिया।
Sunday, December 27, 2020
अष्टवर्षाभ्यन्तरे चीनः यु एस् राष्ट्रात् पुरोगमिष्यति।
विपरिणमितकोविड् विषाणुः यूरोप् राष्ट्रेषु व्याप्यते।
पारीस्> वंशपरिणामभूतः कोविड्वैराणुः यूरोपीयराष्ट्रेषु आशङ्राजनकेन व्याप्यते। विषाणोः सान्निध्यं यू केतः आगतेषु चतुर्षु स्पयिन् देशीयेषु नैकेषु फान्स् , स्वीडन् देशीयेषु च स्थिरीकृतम्।
तथा च जापाने पञ्च जनाः नूतनविषाणुबाधिताः अभवन्। डेन्मार्क्,नेतर्लान्ट्, आस्ट्रेलिया इत्येतेषु राष्ट्रेष्वपि विपरिणतवैराणोः सान्निध्यं दृढीकृतमासीत्।
राष्ट्रस्य अल्पतमवयस्का महानगरसभाध्यक्षा केरलराजधान्याम्।
बालसंघस्य राज्यस्तरीयाध्यक्षा, एस् एफ् ऐ नामकविद्यार्थिसंघटनस्य जनपदोपाध्यक्षा तथा राज्यसमित्यङ्गश्च भवत्येषा। सि पि एम् राजनैतिकदलस्य अनन्तपुरीजनपदसमित्या एव महानगरसभाध्यक्षस्थानं प्रति आर्या निश्चिता। नगरस्य ४६तमं 'मेयर्'पदं तथा तृतीयं वनितामेयर् पदं च अलंक्रियते आर्याराजेन्द्रेण।
Saturday, December 26, 2020
ब्रिट्टणे कोविड् वैराणोः अन्यतमा श्रेणी प्रत्यभिज्ञाता।
लन्टण् > बिट्टणो प्रत्यभिज्ञातस्य वर्धित व्यापनक्षमस्य वैराणोः श्रेण्याः दक्षिणाफ्रिका संबन्धः अस्ति इति ब्रिट्टीष् स्वास्थ्य निर्देशकेन मानहोकेन उक्तम्। जनितक रूपव्यत्ययेन जातस्य वैराणोः ब्रिट्टणस्य वैराणुभिन्नता अस्ति। अस्य वैराणेः व्यापनशीलत्वम् अधिकम् अस्ति। अतः भयाशङ्काः वर्धन्ते इति तेनोक्तम्।
Friday, December 25, 2020
चलनचित्रगीतस्य संस्कृतानुवादः सामाजिकमाध्यमेषु नूतनतरङ्गमुद्पाद्यते।
आक्कुलं केन्द्रीयविद्यालयस्य छात्रा तथा विश्वाभिलेखविजेत्री चलच्चित्रगायिका च अदिति नायर् एवास्यालापनम् अकरोत्। Livesanskrit संघस्य सदस्यः श्री विनायकः सी बी अस्य सम्पादनम् अकरोत्। संस्कृतगानमिदमधुना जनहृदयेषु स्थानमावहत् सामाजिकमाध्यमानां प्रियतरं विराजते।
गानश्रवणाय -https://youtu.be/Fk3gccQKDes
कृषक प्रक्षोभः आरभ्य मासैकं प्राप्नोति - परिहारः अनिश्चितत्वे।
नवदिल्ली> केन्द्रसर्वकारस्य नूतनान् कार्षिकनियमान् विरुद्ध्य आरब्धः कृषकप्रक्षोभः मासैकं प्राप्नोति। परिहारचर्चा अपि सप्तवारमतीता। किन्तु परिहारस्तु विदूरे वर्तते।
कार्षिकनियमाः पूर्णतया कृषकाणां हितमुद्दिश्य इति प्रधानमन्त्रिणा अपि गतदिने उक्तमासीत्। नियमानधिकृत्य उदारहृदयेन चर्चायै सज्जमिति ह्यः पत्रद्वारा सर्वकारेण पुनरुक्तम्। किन्तु नियमस्य विनिवर्तनात् ऋते किमपि नावश्यकमिति कृषकसंघटनैरपि निगदितम्।
Thursday, December 24, 2020
कोविड् ग्रसितम् अन्टार्टिकं अपि। ३६ संख्याका: रोगग्रस्ताः।
सान्टियागो> अन्टार्टिका प्रदेशेऽपि कोविड् १९ वैराणुबाधा स्थिरीकृता। चिलियस्य अनुसन्धानाधार-प्रकोष्टस्य ३६ जनाः एव रोगग्रस्ताः अभवन्। एतेषु २६ जनाः चिलियस्य सैनिकाः १० जनाः कर्मकराः च भवन्ति। भूखण्डे सामान्य जनवासः नास्ति चेदपि २००० गवेषकाः अन्ये सन्दर्शकाः च अत्र वासं कुर्वन्तः सन्ति इति ए पि संस्थया आवेद्यते।ब्रिट्टनं प्रति यात्रानिरोधः फ्रान्स् राष्ट्रेण निराकृतः।
पारीस्> कोविड्विषाणोः परिणमितरूपाधिगमनानन्तरं ब्रिट्टन् राष्ट्रात् आगम्यमानेभ्यः विहितं यात्रानिरोधं फ्रान्स् राष्ट्रं निराकुरुत। दिनद्वयात्मकमासीत् निरोधः। परं कोविडभावसाक्ष्यपत्रसहितेभ्यः यात्रिकेभ्यः राष्ट्रं प्रवेष्टुमनुज्ञा कल्पिता। ब्रिट्टनात् प्रस्थिताः पण्यमहानौकाः बुधवासरे फ्रान्ससः तीरं प्राप्ताः। ब्रिट्टनस्य उपरि विहितः यात्रानिरोधः प्रतिनिवर्तितव्यः इति यूरोपियन् आयोगेन निर्दिष्टमासीत्।









