OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 6, 2026

 फ्रान्सः चतुर्थांशे; प्रतिद्वन्द्वी मोरोक्को।

लक्ष्यसम्पादने एम्बाप्पे मेसेः समः।

किलियन् एम्बापे। 

डालस्> पराग्वे दलीयानां शारीरिकप्रहराणि, ३९ डिग्री तापं चातिक्रम्य फ्रान्सः प्रतियोगिनं १-० इति लक्ष्यक्रमेण पराजित्य विश्वचषकपादकन्दुकस्पर्धायाः चतुर्थांशचक्रं प्राविशत्। ७० तमे निमिषे लब्धं दण्डप्रहारं [Penalty kick] जालं प्रवेशितवान्  नायकः किलियन् एम्बाप्पे एव फ्रान्सस्य विजयशिल्पी। 

  अस्मिन् विश्वचषके एम्बाप्पेवर्यस्य सप्तमं लक्ष्यकन्दुकम् अस्तीदम्। अनेन लक्ष्यसंग्रहणे लयोलण् मेसेः समः अभवत्। आहत्य विश्वचषकलक्ष्येषु १९ संख्याकं प्राप्य मेसेः लक्ष्यैकस्मात्  पृष्ठतः अस्ति। षट्भिः  विश्वचषकैः   अस्ति मेसीवर्यस्य २० लक्ष्यप्राप्तिः। किन्तु २७ वयस्कः एम्बाप्पे त्रिभिः विश्वचषकैः १९ लक्ष्याणि सम्पादितवान्।