OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, July 7, 2026

 नरेन्द्रमोदिने इन्डोनेष्यायां  हृद्यं स्वीकरणम्। 

मोदिनं इन्डोनेष्यायाः राष्ट्रपतिः स्वीकरोति। मोदिनः विमानं इन्डोनेष्यायुद्धविमानानि अनुगच्छन्ति। 

जकार्ता> त्रिराष्ट्रसन्दर्शनस्य अंशतया सोमवासरे इन्डोनेष्यां प्राप्तवन्तं भारतस्य प्रधानमन्त्रिणं नरेन्द्र मोदिनम् इन्डोनेष्यायाः राष्ट्रपतिः प्रबोवो सुबियान्तो वर्यः विमाननिलयं प्राप्य स्वीकृतवान्। तत्र सन्निहितस्य भारतीयजनसञ्चयस्य कण्ठेभ्यः "भारतमाता की जय्" "मोदी मोदी--" आह्वानानि उद्गतानि। इन्डोनेष्यायाः परम्परागतकलारूपाणि मोदिनः स्वीकरणार्थं सज्जीकृतानि आसन्। यदा नरेन्द्र मोदिनः विमानं इन्डोनेष्यायाः व्योमसीमां प्राविशत् ततः आरभ्य इन्डोनेष्यायाः युद्धविमानानि अन्वगच्छन् च।