OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 6, 2026

 चरितम् अनुवृत्य नोर्वे। 

 ब्रसीलं प्रभञ्ज्य चतुर्थांशे। 

एर्लिङ् हालण्टः। 

न्यूयोर्क्> गतरात्रौ न्यू जर्सी क्रीडाङ्कणे सम्पन्ने षोडशगणीयचक्रस्य अन्यतमे प्रतिद्वन्द्वे पञ्चवारं विश्वचषकवीरतापदं प्राप्तवन्तं ब्रसीलगणं १ - २ इति लक्ष्यप्रकारे प्रभञ्ज्य नोर्वे चतुर्थांशचक्रं प्राविशत्। नोर्वेगणस्य श्रेष्ठक्रीडकस्य 'एर्लिङ् हालण्ट'स्य लक्ष्ययुगलमेव नोर्वेविजयस्य आधारः। स्थानेतरादेशत्वेन आगतस्य नेय्मरस्य लक्ष्यमासीत् ब्रसीलस्य समाश्वासः। परस्परस्पर्धाचरित्रे अद्यावधि नोर्वेदलं पराजापयितुं ब्रसीलः न शशाक। 

  क्रीडायाः प्रथमार्धे उभाभ्यामपि दलाभ्यां सविक्रमक्रीडा प्रदर्शिता अपि लक्ष्यजालं न कम्पितम्। १३ तमे ब्रसीलस्य दौर्भाग्यः आरब्धः। ब्रसीलानुकूलाय लब्धः दण्डप्रहारः ब्रूणो गिमारसेन कृतोSपि नोर्वेदलस्य लक्ष्यरक्षकेण और्जन् नेय्लान्ट् इत्येषः  उत्प्लुत्य रक्षितवान्। विश्वचषकस्य चरित्रे ४० वर्षाणामाभ्यन्तरे प्रथमा दण्डप्रहारनिष्फलता!

  द्वितीयार्धे अन्यस्थानीयेन आगतः नोर्वे क्रीडकः आन्ड्रियास् षेन् ड्रूपः क्रीडागतिं परिवर्तितवान्। तस्य साहाय्येन नोर्वेदलस्य सविक्रमक्रीडकः एर्लिंग हालण्टः ७९, ८९ निमिषद्वेये अत्युज्वलं लक्ष्यद्वयं सम्प्राप्तवान्। अनेन हालण्टः अस्मिन् विश्वचषके सप्त लक्ष्याणि सम्पाद्य मेसी, एम्बापे वर्ययोः समशीर्षः जातः। नोर्वे २-० इति अग्रे। 

  ६९ तमे निमिषे अन्यस्थानीयेन आगतः ब्रसीलस्य श्रेष्ठक्रीडकः नेय्मरः ९०+९तमे  निमिषे लब्धेन दण्डप्रहारेण लक्ष्यमवाप्तः अपि स्वदलं रक्षितुं तन्नपर्यप्तमभवत्। ब्रसीलस्य दौर्भाग्यं पूर्णं जातम्।

क्रीडान्त्ये क्रीडाङ्कणे पराजयेन विलपन् नेय्मरः।