फिफा विश्वचषकः।
पोर्चुगल् बहिर्गतं, रोनाल्डो वर्यस्य निराशया निवृत्तिः।
स्पेयिनः चतुर्थांशे। 
स्पेयिनस्य विजये तद्दलीयानाम् आह्लादः, रोनाल्डो वर्यस्य निराशा च।
डालस्> गतरात्रौ सम्पन्नायां पोर्चुगल-स्पेयिनयोः प्राक्चतुर्थांशप्रतियोगितायां स्पेयिनः पोर्चुगलं प्रत्युत्तररहितेन लक्ष्यकन्दुकेनैकेन पराजित्य चतुर्थांशचक्रं प्राविशत्। स्पर्धायाः क्षतपरिहारनिमिषेषु स्पेयिनस्य मैकल् मेरीनो नामकेन प्राप्तं लक्ष्यं पोर्चुगलस्य बहिर्गमनं स्पेयिनस्य चतुर्थांशचक्रप्रवेशं च साध्यं कृतम्।
अनेन विश्वचषकेन विश्वचषकात् क्रीडानिवृत्तिं उद्घोषितवतः क्रिस्ट्यानो रोनाल्डो इति क्रीडाराजस्य पराजयः तमिव लक्षशः आराधकानपि निराशागर्तम् अपातयत्।