येमने हूतयः १४ सैनिकान् जघ्नुः।
एडन्> येमनराष्ट्रे आधिकारिकसर्वकारस्य सैन्यस्य १५ भटाः हूतिनामकसायुधसंघस्य आक्रमणे हताः। 'होदैदा'नगरसमीपं हय्स् जनपदस्थे जबल् दुबास् इत्यत्र आसीत् आक्रमणम्। २३ सैनिकाः संघट्टने व्रणिताः। समीपकाले यमने वृत्तं अतीवरक्तरूषिताक्रमणम् अस्त्येतत् इति ए एफ् पि इति वार्तासंस्थया वृत्तान्तीकृतम्।