OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 28, 2018

नायकत्वं परिवर्तितम्-विजयः समागतः
 रजीष् नम्पीश ः 
     नवदल्ही > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः सम्पन्नक्रीडायां डेल्ही दलं ५५ धावनाङ्कैः कोल्कत्ता दलं पराजयत्।ह्यः डेल्ही दलं नूतननायकस्य श्रेयस् अय्यरस्य नेतृत्त्वे एव अक्रीडयत्। श्रेयस्‌ अय्यर् ४० कन्दुकेभ्यः ९० धावनाङ्कान् सम्पाद्य डेल्ही दलस्य विजयशिल्पी अभवत्।विजयोऽयं डेल्ही दलस्य आत्माविश्वासम् अवर्धयत्। अङ्कस्थितिः - डेल्ही डेर्डेविल्स् २१९/४ कोल्कत्ता नैट् रैडेर्स् १६४/९.