OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 26, 2018

सर्वोच्चन्यायालयस्य सम्पूर्णोणोपवेशयनाय प्रार्थयन्ते न्यायाधीशाः
          नवदिल्ली> सर्वोच्चन्यायपीठस्य समस्याः परिहर्तुं सम्पूर्णन्यायालयः आमन्त्रितव्यः इति आवश्येन साकं न्यायाधीशाः । न्यायाधीशाः रञ्जन गोगो तथा मदन बि लोक्कूरश्च एतदुन्नीय मुख्यन्यायाधीशाय दीपकमिश्राय पत्रम् प्रैषयताम्। मुख्यन्यायाधीशं विस्तरेदिति आवश्यमुन्नीय गतदिने विपक्षदलेन निवेदनं दत्तमासीत्।  किन्तु राज्यसभाध्यक्षः वेङ्कय्य नायिडुः तन्निदनपत्रं तिरस्कृतवान्। एतदनुवर्त्य एव सम्पूर्णन्यायालयस्य उपवेशनं
आवश्यकमिति  उन्नीय न्यायाधीशाः पुरतः आगताः। सर्वोच्चन्यायपीठस्य सुरक्षायै भाविने च एतदत्यावश्यकमिति संसूच्यैव न्यायाधीशैः  आवश्यमेतत् पुरस्कृतम्।
          नैके न्यायाधीशाः समानं आवश्यं संसूच्य आगतवन्तश्च। समयेस्मिन् न्या. श्री मिश्रः पत्रस्य प्रतिकरणमेव नादात्। सोमवासरे प्रातः प्रवृत्ते न्यायाधीशानां मेलने तदनन्तरे प्रवृत्ते चायापान वेलायां च सम्पूर्णन्यायालयस्य आह्वयनसम्बद्धान् विषयान् न्यायाधीशाः असूचयन् चेदपि मिश्रया प्रतिकरणं किमपि न कृतम्।  नीतिन्यायव्यवस्थायां सुप्रधानसमस्याः यदा आगच्छन्ति तदा एव  मुख्यन्यायाधीशः सम्पूर्णन्यायालयम् आमन्त्रयति। तदा सर्वोच्चन्यायपीठस्य समस्ताः न्यायाधीशाः  उपवशने  भागं गृह्णीयुरिति नियमः।