OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 25, 2018

केरलेषु 'जन् औषधि' योजना दुर्घटावस्थायाम्
     कोच्चि > केन्द्रसर्वकारेण आयोजितायां 'जन् औषधि' पद्धत्याम् अन्तर्भूतानाम् औषधविपणनकेन्द्राणां केरलेषु प्रवर्तनं मन्दगतौ वर्तते। औषधानां लभ्यतायाम् अनुभूयमाना न्यूनता एव मुख्यं कारणम्। वितरणाय आवश्यकानि विविधानि औषधानि न लभ्यन्ते इति विपणनशालाप्रवर्तकाः सूचयन्ति। अधुना ३४० जन् औषधि विपणनशालाः केरलेषु विविधमण्डलेषु प्रवर्तन्ते। एताभ्यः विपणनशालाभ्यः प्रतिमासं पञ्चकोटिरूप्यकाणाम् औषधानि आवश्यकानि सन्ति।सामान्यानां निर्धनरोगिणां कृते महदुपकारिकाः भवन्ति एताः जन् औषधिशालाः। अन्यान् औषधनिर्माणविभागान् अपेक्षया जन् औषधिद्वारा लभ्यमानानाम् औषधानां मूल्यं बहु न्यूनं भवति। औषधानां विपणनाधारेण एव आनुकूल्यं लभ्यते इत्यतः औषधलभ्यता मुख्या इति आपणिकाः अभिप्रयन्ति।