OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 28, 2018

कोरियन् अग्रे परं शान्तिदिनानि; राष्ट्रपतिद्वयस्य मेलनं सफलम्। 
          सोल् > आविश्वम् आकांक्षया प्रतीक्ष्यमाणस्य कोरियन् उच्चकोटिसम्मेलनस्य आश्वासप्रदायकः समाप्तिः। दक्षिणोत्तरकोरियाराष्ट्रयोः भूशिरसि सम्पूर्णम् अण्वायुधनिराकरणं सम्पत्स्यति, भूमण्डले सर्वत्र स्थिरां शान्तिं पुनःस्थापयिष्यतीति  प्रख्यापनेन राष्ट्रयुगलस्य राष्ट्रपत्योः उन्नततलमेलनं परिसमाप्तम्। 
      "दौर्भाग्यकराणि गतदिनानि" न पुनरावर्तयितुम् एकमनसा प्रवर्तयिष्यतीति उत्तरकोरियाशासकः 'किं जोङ् उन्' नामकः तथा दक्षिणकोरियाशासकः 'मुन् जे इन्' नामकश्च संयुक्तप्रस्तावेन उक्तवन्तौ। कोरियन् संग्रामं शासकीयतले परिसमापयिष्यतीति ताभ्यां निगदितम्। शुक्रवासरे प्रादेशिकसमयानुसारं नववादने एव कोरियाराष्ट्रयोः सीमनि सैनिकरहितमण्डले 'पान् मुन् जोम्' प्रदेशे  वर्तमाने "शान्तिभवने" आविश्वं प्रतीक्ष्यमाणं मेलनं सम्पन्नम्।