OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, April 22, 2018

संस्कृतं जनसामान्यस्य भूषणं भवेत् - न्यायाधीशः वि एन् सत्यानन्दः। 
    कालटी> सरलां संस्कृतभाषां साधारणजनेषु भूषणरूपेण विराजयितुं यत्नः कार्यः इति निवृत्तः न्यायाधीशः वि एन् सत्यानन्दः अवदत्।  'सम्प्रतिवार्ता'याः नेतृत्वे संस्कृतसंवर्धकप्रतिष्ठानस्य सहयोगेन कालटीपुरे आयोज्यमानायाः एकदिवसीयकार्यशालायाः उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। संस्कृतं समाजव्यवहाराय कठिनं क्लिष्टं चेति विभावनां दूरीकर्तुम् अध्यापकैरेव सुकरं साधयेत्  तदिति तेनोक्तम्। सम्प्रतिवार्तापत्रिकायाः मुख्यसम्पादकः अय्यम्पुष़ हरिकुमारः अध्यक्षतामवहत्। कालटी श्रृङ्गेरीमठस्य शोधच्छात्रः श्रीनिवासकारन्तः आशंसां समार्पयत्। सम्प्रतिवार्तायाः निदेशकसमित्यङ्गीभूतौ ऐवर्काल रविकुमारः स्वागतं, पि रती कृतज्ञतां च व्याहृतवन्तौ। 
      विद्यालय-कलालयाध्यापकाः, शोधछात्राः, संस्कृत-पत्रप्रवर्तकाः संस्कृत-लेखकाः इतरे संस्कृतानुरागिणश्च चतुस्सत्रात्मिकायां कार्यशालायां भागमकुर्वन्। पञ्चाशत् जनानां कृते सप्ताहात् पूर्वं आन्तर्जालद्वारा पञ्जीकरणं स्वीकृत्य आयोजिता आसीत् इदं सत्रम्। तथापि बह्व्यः संस्कृतप्रेमिणः पञ्जीकरणं विनापि कार्यशालायां समागताः।