OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 28, 2018

पाक् होक्की कीडकाय भारतहृदयः
     मुम्बै > एकदा असामान्यक्रीडनैः भारतहृदयेषु वेदनां दत्ताय पाकिस्थानस्य भूतपूर्वक्रीडकाय मन्सूर् अहम्मदाय अधुना भारतेन हृदयदानं करणीयम्। हृदयरोगपीडितः सः भारते विदग्धचिकित्सायै वैद्यविसां लब्धुं भारतसर्वकारं प्रति आवेदनं समर्पयत्। तस्मै निशुल्कचिकित्सां दातुं 'होर्टिस्' नामकः आतुरालयसङ्घः सन्नद्धतां प्राकट्यत्। उचितं हृदयं स्वीकर्तुं सङ्घेन मुम्बई,चेन्नै मध्ये च पञ्जीकरणम्‌ अकरोत् इति सङ्घस्य कार्यकर्तृभिः सूचितम्। अधुना मन्सूर् अहम्मदः पाकिस्थाने कराच्च्यां जिन्ना आतुरालये चिकित्सां स्वीकुर्वन् वर्तते। तत्रत्याः वैद्याः एव भारते विदग्धचिकित्सां निरदिशन्। विसा अनुज्ञाविषये भारतसर्वकारस्य निर्णयः प्रधानः वर्तते।