OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, April 23, 2018

 उद्घाटनाय समागतः न्यायाधीशः संस्कृतानुरागेण कार्यशालायाः भागं स्वीकृतवान् ।
      कालटी > कालट्यां आयोजिते सरलमानकसंस्कृतकार्यशालायां सत्रचालकस्य भाषणे तथा  सत्रस्य सारल्ये आकृष्टः न्यायाधीशः वि एन्‌ सत्यानन्दः कार्यशालायाः सम्पूर्णतापर्यन्तं सत्रे पूर्णतया भागभाक् अभवत्।  एतादृशकार्यक्रमाः  अवश्यकाः  इति सत्रे भागं कृत्वा न्यायाधीशेन उक्तम्। प्रातः दशवादने आरब्धायां कार्यशालायां सायं सार्धचतुर्वादनपर्यन्तं सत्राङ्गत्वेन भागं स्वीकृतवानयम् ।
      सरलं संस्कृतं नित्यव्यवहारेण बालकानामपि क्रीडनकवत् कर्तुं शक्यत इति तृप्पूणित्तुरा सर्वकारीयसंस्कृतकलालयस्य ज्योतिषविभागाध्यक्षस्य ई एन् ईश्वरस्य  उक्तितिं श्रुत्वा सत्रे पूर्णतया भागं कर्तुं निश्चितवानासीत् न्यायाधीशः।  ओ एन् जी सि संस्थायाः CSR परियोजनायां संस्कृतसंवर्धनप्रतिष्ठानेन भारतस्य विभिन्नराज्येषु 'सरलमानकसंस्कृतम्' इति नाम्ना  कार्यक्रमाः  आयोजिताः वर्तन्ते। मार्च् मासे आरब्धाः एकदिवसीयाः कार्यशलाः एप्रिल् मासस्य  नवविंशति दिनाङ्के समाप्यते।