OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 18, 2018

रुप्यकपत्राणि अलभ्यानि - ५०० रुप्यकपत्राणं मुद्रणं पञ्चगुणितं वर्धाप्ययते।
       नवदिल्ली> राष्ट्रे रुप्यकपत्राणाम् आवश्यकता वर्धिता। सन्दर्भेऽस्मिन् पञ्चशतानां (५००) रुप्यकपत्राणां मुद्रणं पञ्चगुणितं वर्धानं कर्तुं सर्व कारेण निश्चितम्। आर्थिकमन्त्रालयस्य सजिवेन सुभाष् चन्द्रगार्गेण आवेदिता इयं वार्ता। राष्ट्रस्य कश्चन भागेषु रुप्यकपत्राणां  दौर्लभ्यं अस्ति इति आवेदनेन भवति अयं निर्णयः। इदानीं प्रतिदिनं पञ्चशतं कोटि रुप्यकाणं नूतनरुप्यकपत्राणि मुद्रणं कुर्वन्ति। एतस्य मुद्रणस्य पञ्चगुणितं  इति वर्धापयितुम् उद्दिशयते । दिनाभ्यन्तरेण एतत् भविष्यति।
        रुप्पकपत्राणां दौर्लभ्यं यथार्थतः नास्ति। अष्टादशलक्षं कोटिरुप्यकाणां पत्राणि इदानीं प्रचाल्यमानानि सन्ति।  आन्ध्राप्रदेशः तेलङ्काना कर्णाटकं मध्यप्रदेशः बीहारः इत्येतेषु राज्येषु रुप्यकपत्राणां दौर्लभ्यं अस्ति इति आवेदनम् आगतम् । अतः एव अधिकाया मुद्रणं करणीयम् इति निश्चयम् अभवत् ।