OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 21, 2018

  संस्कृत-पत्रकारितायै अय्यम्पुष़ हरिकुमाराय अम्बेद्कर् हयर् एक्सलन्स्  पुरस्कारः।

    अनन्तपुरी > विशेष प्रवर्तनाय डा बि आर् अंबेदकरस्य नाम्नि  दीयमानपुरस्कारेषु पत्रकारिताविभागस्य पुरस्कारेण  'सम्प्रतिवार्ता'याः मुख्यसम्पादकः अय्यम्पुष़ हरिकुमारः समादृतः। अम्बेद्कर् जयन्ती समारोहसमित्या एव प्रतिसंवत्सरं दीयमानः पुरस्कारः  एवैषः।

      पत्रकारिताप्रवर्तनेषु विशिष्टम् अनुकरणीयं च भवति  सम्प्रतिवार्तायाः प्रवर्तनम् इति समित्यध्यक्षः आर् रामन्कुट्टिमहोदयः उक्वान् । आधुनिकपारिभाषिकसंकेतान् संस्कृतभाषां सन्निवेश्य छात्रेषु प्रचोदनम् उत्पादयन् विश्वे अपि इदंप्रथमतया छात्राः वार्तावतारकरूपेण अनुवर्तमानः 'सम्प्रतिवार्ता' इति ओण्लैन् दिनपत्रिकायाः दृश्यवार्तावाहिनी प्रसरणसंकेतः इत्यादीनि विविधानि योगदानानि परिगण्य  आसीत् पुरस्कारनिर्णयः। 

      अनन्तपुर्यां कनकक्कुन्न् प्रासादे आयोजिते अम्बेक्कर् जयन्ती समारोहे केरलराज्यस्य भूतपूर्व सचिवः मलयालं विश्वविद्यालयस्य भूतपूर्वकुलपतिः कविः के जयकुमारः  पुरस्कारं दत्तवान्।