OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, April 20, 2018

'लाेय' आदेशस्य प्रखापनानन्तरं सर्वोच्चन्यायालयस्य अन्तर्जालपुटं बलात् नीतम्।
       नवदिल्ली> न्यायाधीशस्य लोयवर्यस्य निधनम् अधिकृत्य स्वतन्त्रान्वेषणं नावश्यकम् इति सर्वोच्चन्यायालयेन आदेशे प्रदत्ते सति न्यायालयस्य अन्तर्जालपुटं चोरितम्। है टेक् ब्रसील् इति अन्तर्जाल चोराः एव घटनायाः पृष्टतः वर्तन्ते। २०१३ तमे संवत्सरे भारतस्य अन्तर्जालपुटेन साकं शताधिकानि अन्तर्जालस्थानानि एतैः चोरितानि। सि बि ऐ संस्थायाः विशेषन्यायालयस्य  न्यायाधिपस्य बि एच् लोयवर्यस्य निधनमधिकृत्य स्वतन्त्रान्वेषणम् आश्यकम् इत्युक्त्वा बहूनि सार्वजनिकपरिदेवनानि लब्धानि। परिदेवनानाम् अवलोकनानन्तरम् न्यायालयेन सर्वं परित्यक्तम् | परिदेवनानां परित्यक्त्यनन्तरं कतिपयनिमिषान्तरेण एव अन्तर्जालस्थानं चोरितम्।