OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, April 29, 2018

सीमाशान्तिम् आतङ्कवादसम्मार्जनं च  व्यवस्थाप्य मोदी - षी मेलनं समाप्तम्। 
  वुहान् > भारत - चीनासीमायां वर्तमानां संघर्षावस्थां परिहृत्य राष्ट्रशान्तिं पुनःस्थापयितुं, तथा आतङ्कवादसम्मार्जनाय ऐक्येन प्रवर्तितुं च आह्वयत् भारत - चीना राष्ट्रनेतृद्वयस्य दिनद्वयात्मकं मेलनं समाप्तम्। 
    "हृदयात् हृदयं प्रति" इत्यासीत् भारतप्रधानमन्त्री नरेन्द्रमोदी, चीनाराष्ट्रपतिः षि जिन् पिङ् इत्येताभ्यां मध्यचीनायां 'वुहान्' प्रदेशे कृताय  अनौपचारिकाय उच्चसम्मेनाय लब्धं विशेषणम्। दिनद्वयात्मकस्य उच्चमेलनानन्तरं  मोदीवर्यः शनिवासरे सायं दिल्लीं  प्रतिसम्प्राप्तः। 
     गतवर्षे 'डोक्लाम'सीमायाम् उभयस्य राष्ट्रस्य सैनिकाः युयुत्सवः सन्तः ७३ दिनानि यावत्  अभिमुखं वर्तिता  अवस्था परं न भविष्यतीति भारतविदेशकार्यसचिवेन चीनायाः उपविदेशकार्यमन्त्रिणा च कृते विभिन्ने वार्ताहरसम्मेलने स्पष्टीकृतम्।