OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, April 22, 2018

पुरस्कारशोभया गिन्नस् पक्रुः
-रजीष् नम्पीशः

     कोच्ची > कैरली सिनेमाप्रवर्तकाय गिन्नस् पक्रुः इति नाम्ना प्रसिद्धाय अजयकुमाराय विश्वस्य अतिवामनः सिनेमानिदेशकः इति ख्यात्या त्रयः पुरस्काराः लब्धाः। २०१३ तमे वर्षे प्रकाशितस्य  'कुट्टीं कोलुम्' इति नामकस्य चलनचित्रस्य निदेशकत्वनिर्वहणेनैव अजयकुमारः पुरस्काराय अर्हतां प्रापयत्।लिंका बुक् आफ्‌ रेकोर्ड्,यूणिवेर्सल् रेकोर्ड् फारं,बेस्ट् आफ् इण्ड्या रेकोर्ड् इत्यादयः त्रयः पुरस्काराः एव तेन प्राप्ताः।शनिवासरे एरणाकुलं प्रस् क्लब् मध्ये संवृत्ते समारोहे पुरस्कारदानम् अभवत्।एते पुरस्काराः आत्मविश्वासेन कलामण्डले अग्रे गन्तुं प्रचोदनं ददतीति पुरस्कारान् स्वीकृत्य अजयकुमारेण अभिप्रेतम्।