OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 26, 2018

विजयः-चेन्नै दलं प्रथमस्थाने
-रजीष्‌ नम्पीशः 
       बङ्गलुरु > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः संवृत्तस्पर्धायां चेन्नैदलेन बाङ्गलुरु दलं पञ्चभिः क्रीडकैः पराजितम्।उद्वेगभरितायां स्पर्धायां भारतस्य भूतूपूर्वनायकस्य एम् एस् धोनिनस्य अद्‌भुतप्रकटनमेव चेन्नै दलस्य कृते उपकारकम् अभवत्।बृहदङ्कान् अनुवर्तमाने सन्दर्भे पराजयमभिमुखीकृतवेलायां धोनिनः मनःसान्निध्यमेव चेन्नै दलस्य विजयकारणम्‌ अभवत्। धोनी ३४ कन्दुकेभ्यः ७० धावनाङ्कैः अपराजितः आसीत्। चेन्नै कृते अम्बाट्टि रायिडु ८२ धावनाङ्कान् प्राप्तवान्।अनेन विजयेन चेन्नै दलम् अङ्‌कपट्टिकायां प्रथमस्थानं प्रापयत्।अङ्काः- बाङ्गलुरु रोयल् चालञ्जेर्स् २०५/८ चेन्नै सूपर् किङ्स् २०८/५  ॥