OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, April 23, 2018

समुद्रः प्रक्षुब्धः-तीरदेशवासिभ्यः जाग्रतानिर्देशः दत्तः।
    तिरुवनन्तपुरम् > केरलेषु समुद्रः प्रक्षुब्धावस्थायां वर्तते  इत्यतः सर्वकारेण तीरदेशप्रदेशेषु जाग्रतानिर्देशः दत्तः। समुद्रप्रक्षोभेण मत्स्यबन्धनकर्मकराः अतिदुरितमनुभवन्ति। तिरुवनन्तपुरे विष़िञ्ञं, वेली, कोच्चुवेली, अटिमलत्तुरा, वल्लक्कटव् इत्यादिषु प्रदेशेषु समुद्रः प्रक्षुब्धः भवति। एतेभ्यः प्रदेशेभ्यः जनाः दुरिताश्वासकेन्द्रं प्रति परिवर्तिताः। समीपस्थाः विद्यालया: एव दुरिताश्वासकेन्द्ररूपेण निश्चिताः वर्तन्ते।एतावता विंशत्यधिकानां परिवाराणां दुरिताश्वासकेन्द्रं प्रति परिवर्तनम् अभवत्।षष्ट्यधिकानि गृहाणि समुद्रक्षोभेण जलपूर्णानि अभवन्।कर्मकराः मत्स्यबन्धनाय समुद्रं प्रति न गन्तव्याः इति सर्वकारनिर्देशः वर्तते।