OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, April 13, 2018

परमाधिकारी मुख्यन्यायाधीश एवेति सर्वोच्चन्यायालयः।
     नवदिल्ली> पीठिकारूपीकरणे दण्डनविधीन्‌ विभक्तुञ्च अधिकारः मुख्यन्यायाधीशस्येति सर्वोच्चन्यायालयः। मुख्यन्यायाधीशस्य पीठे द्वौ ज्येष्ठन्यायाधीशौ योजनीयौ इति निवेदनं अवलोक्य एव न्यायालयस्य अयं आदेशः। लख्नौ स्वदेशिना अशोकपाण्डे नामकेन समर्पितं निवेदनं एवं तिरस्कृतम्। सर्वोच्चन्यायाधीशस्य दीपकमिश्रस्य आध्यक्ष्ये वर्तमाना पीठिका एव निवेदनं पर्यगणयत्।
   सर्वोवोच्चन्यायालयस्य उच्चन्यायालयस्य च विधीन् परिगणितुम् पीठिकां निर्णेतुञ्च मार्गनिर्देशाः विधेयाः इति अशोकपाण्डे नामकः निवेदनमयच्छत्। उन्नतन्यायालयानां दायित्वम् मुख्यन्यायाधीशे निक्षिप्तं भवति शासनव्यवस्थया। मुख्यन्यायाधीशः एव उन्नतन्यायालयानां नायकः। न्यायालयप्रक्रियायाः सुगमचालनाय नियुक्तः भवति मुख्यन्यायाधीशः इति अशोकपाण्डस्य निवेदनं तिरस्कृत्य न्यायालयः व्यक्तम् अकरोत्।