मणिपुरे व्याजमद्यं पीत्वा १६ मरणानि।
इम्फाल्> मणिपुरे चन्देल जनपदे व्याजमद्यं पीत्वा १६ जनाः मृताः। ६०० तः अधिके जनाः विविधातुरालयेषु प्रविष्टाः। मेथनोल् नामकविषोपेतं मद्यमासीत् दुरन्तकारणमिति सूच्यते। सप्ताहाभ्यन्तरे एव दुरन्तः एतावत् व्याप्तः अभवत्। व्याजमद्यस्य वितरणं कृतवन्तः षट् जनाः निगृहीताः।