OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, March 22, 2016

अम्बद्करः सर्वेषां विमोचकः - मोदी।

नवदिल्ली > डो. बि आर् अम्बद्करः न केवलं दलितविभागीयनां किन्तु सर्वेषां पार्श्ववत्कृतानां च विमोचकः आसीदिति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम् ।नवदिल्यां अम्बद्कर् देशीयस्मारकस्य शिलास्थापनसमारोहे भाषमाणः आसीदयम् । अमेरिक्कायां श्यामवर्णीयानाम् अधिकारेभ्यः प्रवर्तनं कृतवतः मार्टिन् लूथर् किङ् वर्यस्य समशीर्षः अम्बद्करः विश्वमानवः आसीत् इति प्रधानमन्त्रिणा अनुस्मृतम्। भारते सामाजिकोद्ग्रथनाय सः नेतृत्वं कृतवान् । राष्ट्रशासनानुसारं सामाजिकसमत्वाय ऐक्याय च तस्य जीवनं समर्पितमिति मोदिवर्यः अवदत्।

नूतनानां स्मृत्यर्थं प्राचीनानां विस्मृतिः।

लण्डन् > मनुष्यमस्तिष्कः अत्भुतानां निगूढ-दुर्गमेवI स्मृतेःविस्मृतेः भावनायः च म्ध्ये किमिति अन्विष्यमानाः  वैज्ञानिकाः रहस्यमिदम् उद्‌घाटितम्। मस्तिष्कस्य केचन भागाः विस्मृत्यर्थं शीघ्रं शीघ्रं प्रयत्नं कुर्वन्ति इति। द्विचक्रिका चालनं पठित्वा तत्‌ कदापि न विस्म्रियते चेदपि विस्मृतिं विना नूतनज्ञानसञ्चयः न भविष्यति इति। नूतनानि पुरातनकार्येण सह बध्वा एव स्मृतिपद्धतिः प्रवर्तननिरताः भविष्यति। भवतु नूतना वैज्ञानिक-दर्शनानि।

Monday, March 21, 2016

रष्यायां विमानदुर्घटना - ६२ हताः।

मोस्को > दुबाय् देशात् रष्याराष्ट्रं प्रति सञ्चरितं विमानं रष्यानगरस्थे रस्तोफ् ने डणु इति  विमाननिलये भग्नीभूय ६२ यात्रिकाः हताः ।  झंझावातः हिमानि च दुर्घटनायाः कारणत्वेन ऊह्येते।
३३ महिलाः ४ बालकाः च सहिताः ५५ यात्रिकाः ७ विमानकर्मकराः च आसन्। सर्वे अपि तत्क्षणे एव मृताः ।



ओबाम क्यूबाभूमौ ;  इदं चरितसन्दर्शनम् ।

Image for the news resultकोच्ची > ८८संवत्सरानन्तरं कम्म्यूणिस्ट् राष्ट्रमिति विख्याते क्यूबादेशे अमेरिक्काराष्ट्रपतेः सन्दर्शनम् । ओबामावर्यः अद्य त्रिदिवसीयसन्दर्शनार्थं क्यूबां प्राप्नोति । १९२८तमे वर्षे काल्विन् कूलिज् असीत् इतः पूर्वं क्यूबां कृतसन्दर्शकः अमेरिकाराष्ट्रपतिः । इदम् अपूर्वं आकस्मिकं सन्दर्शनम्।
  २०१३ तमे वर्षे दक्षिणाफ्रिक्कायां संवृत्तं  क्यूबाराष्ट्रपत्या रौल् कास्ट्रो वर्येण सह ओबामवर्यस्य  अभिमुखं भवति अस्य राष्ट्रसन्दर्शनस्य आधारः ।

Sunday, March 20, 2016

विवाहमण्डपे वरः मद्यं पीत्वा आगतवान्
वधू विवाहात् प्रतिनिवर्तितवती।

मेट्टुपाळयम् (तमिल्नाट्) > मद्यं पीत्वा आगतं वरं दृष्ट्वा वधू मूर्चिता पतिता च। समीपस्थम् अतुरालयं प्रापयित्वा प्राथमिक शुश्रूषाम् अदात्I अनन्तरं विवाहवेदिकायां प्रत्यागत्य विवाहे विप्रतिपत्तिः प्रकाशिता वध्वा।  वरः (२७ वयस्क:) बंग्ळामेट् देशीयः, वधू (२३ वयस्का) एल्.एस्‌.पुरम् देशीया च।
मित्रैः सह सुरां पीत्वा वेदिकायां 'समागतः' वरः नष्टप्रज्ञः आसीत्। वधोः समीपमुपविश्य चापलभाषणं कुर्वतस्य तस्य मुखात् आगतेन मद्यस्य रूक्षगन्धेन वधू मूर्चिता आसीत् च।
अस्मिन् विवाहे वध्वा विप्रतिपत्तिप्रख्यापनं श्रुत्वा लोकाः प्रथमं स्तब्धाः अभवन् । चेदपि इदानीं तस्यै विविधेभ्यः देशेभ्यः अभिनन्दनानां प्रवाहः एव।


पलास्तिक व्यापाराय शुल्कः,
मेलनानन्तरं स्थलमार्जनं करणीयं नो चेत् धनार्पणरूप-दण्डनम्‌।

नव दिल्ली> केन्द्रसर्वकारेण नूतना पलास्तिक-मालिन्य नियमः प्रख्यापितः षण्मासाभ्यन्तरेण आभारतं नियमः प्रबलः भविष्यति।
निशितव्यवस्थया निर्मिते शासने पञ्चाशत् (५०) अतिलघुमितः (Micron) अधः पलास्तिक-स्यूतानां निर्माणं शासन -विरुद्धं भवेत्। आभारतं प्रतिदिनं १५,००० टण्‌ मितं पलास्तिक मालिन्यानि जायन्ते। तस्मात् ९००० टण् मितं सञ्चित्य नाशयितुं शक्यते चेदपि ६००० टण् मितानि मालिन्यानि सञ्चयनं विना यत्र कुत्रापि वितीर्य स्थास्यन्ति।

Saturday, March 19, 2016

संस्कृतवार्ता वाचने छात्रेभ्यः परिशीलनम्। 

कोच्ची > केरलेषु एरणाकुळं जिल्लायाः सर्वशिक्षा अभियानः सम्प्रति वार्तायाः सहकारितया विद्यालय-छात्रेभ्यः वार्ता वाचने परिशीलनं दास्यति। अष्टमकक्षा पर्यन्तेभ्यः छात्रेभ्यः एव प्रवेशः। एप्रिल् मासस्य २०, २१, २२ दिनाङ्केषु वाचन परिशीलन सत्रम् आयोजियिष्यते। कर्यक्रमे भागभाजिनः नाम मार्च् मासस्य ३० तः पूर्वं विद्यालयस्य प्रथमाध्यापकेन E Mail द्वारा प्रेषणीयाः।  छात्रस्य नाम, पितुः दूरवाणीसंख्या च सूचनीया।
परिशीलनेषु विजयिभ्यः सम्प्रति वार्तां वार्ताः अवतारयितुम् अवकाशः दास्यते।

Friday, March 18, 2016

 आकाशवाण्याः "संस्कृत-सौरभम्"

आचार्येण हरिदत्त-शर्मणा साकं डो.बलदेवानन्द-सागरः 
नवदिल्ली > "भारतस्य महामहिमशालिना राष्ट्रपतिना प्रमाण-पत्रप्रदानेन  सभाजितेषु संस्कृत-विद्वत्सु अन्यतमेन आचार्येण हरिदत्त-शर्मणा साकं "संस्कृत-सौरभम्"-इति आकाशवाण्याः कार्यक्रमार्थं साक्षात्सम्भाषणं ध्वन्यङ्कितम्| अवसरेsस्मिन् कार्यक्रम-सञ्चालकेन डो.बलदेवानन्द-सागरेण पृष्टः आचार्य-शर्मा स्वीयान् नाना अध्यापनानुभवान् विवर्णयन् स्वीय-वैदेशिक-यात्राविषयेsपि विस्तरेण सूचितवान्| तेनोक्तं यत् संस्कृत-शिक्षणार्थं तेन नैकवारं अनेकेषां देशानां यात्रा विहिता| तदवसरे तेन अनुभूतं यत् अनेकेषु देशेषु प्रतिष्ठापितैः संस्कृत-पीठैः संस्कृत-विषयकं बहुविधं शोधकार्यम् अनुष्ठीयते| प्रो.शेल्डोन-पोलोक-विषये पृष्टः डो.शर्मा न्यगादीत् यत् अमुना वैदेशिक-विदुषा नैकत्र संस्कृत-ज्ञानस्य वैदिक-मनीषायाश्च विद्रूपीकरणं विहितम्| तच्च नैवास्ति समीचीनम्| भारतीयैः विद्वद्भिः स्वीय-रचनात्मक-प्रतिभया तत् सर्वं सम्यक्तया सम्पादनीयमवशिष्यते | साक्षात्कार-सम्भाषणावसरे आचार्य-शर्मणा स्वीय-काव्यपाठेन सहृदयानां परितोषार्थं काव्यरस-परिवेषणम् अनुष्ठितम्| प्रतिमासं द्विवारं [ प्रथमे तृतीये च शनिवासरे ] रात्रौ सार्धनववादने आकाशवाण्याः इन्द्रप्रस्थ-वाहिनीतः  [ 666 KHz-तः ] प्रसार्यमाणोऽयं कार्यक्रमः एप्रिल-मासे द्वितीय-दिनाङ्के [ शनिवासरे ] श्रोतुं शक्यते|

अरबी अध्यापने २९ संवत्सराणि; गोपालिका अन्तर्जनं निवर्तते।

मलप्पुरं - २९ संवत्सराणि बालकानां कृते अरबिभाषायाः माधुर्यं प्रसारितवती गोपालिका अन्तर्जनं तस्याः कर्ममण्डलात् विरमति। केरलेभ्यः ब्राह्मणसमुदायगता प्रथमा अरबी अध्यापिका इति ख्यातिर्भवति गोपालिकावर्यायाः।
१९८२तमे वर्षे मलप्पुरं जिल्लायां पाण्टिक्काट् प्रदेशे कस्मिंश्चित् वैयक्तिकविद्यालये आसीत् प्रथमनियुक्तिः । किन्तु ब्राह्मणवनितायाः अरबि अध्यापनमसहमानानां धर्मान्धानां प्रतिषेधात्  तत्रत्या केवलं षड्दिवसीया अध्यापकवृत्तिः समाप्ता । किन्तु पराजेतुमसन्नद्धा सा न्यायालये परिदेवनं दत्वा अनुकूलविधिं सम्पाद्य पि एस् सि द्वारा १९८९ तमे वर्षे तिरुवालि सर्वकारीयनीचविद्यालये नियुक्तिं प्राप्तवती । तत्र १० संवत्सराणां सेवनानन्तरं मेलाट्टूर् उपजिल्लायां चेम्माणियोट् सर्वकारीयविद्यालयं प्राप्य १७ संवत्सराणि अतीतानि। ततः एव इदानीं सेवानिवृत्तिः।
 बाल्ये समीपस्थं  समान्तरविद्यालयं गत्वा अरब्भाषां पठितुं तात्पर्यं प्रकटितवत्यै गोपालिकायै पितरौ  अनुमतिं दत्तवन्तौ ।तदेव तस्याः जीवने मार्गपरिवर्तनमभवत् । १९९३ तमे वर्षे प्रकाशितं नारायम् इति चलच्चित्रं गोपालिका अन्तर्जनस्य अध्यापनजीवनं पुरस्कृत्य आसीत् ।

ऐ.एस्.बन्धम्, एन् .ऐ.ऐ.द्वारा २५ जनाः वन्धिताः

नवदिल्ली > ऐ.एस् आदङ्गवादिभिः साकं सम्पर्कः वर्तते इति संशयत्वात् २५ जनान् देशीय अन्वेषण उद्योगस्थैः वन्धिताः इति केन्द्रसर्वकारैः सूचिताः। भारतराष्ट्रात् ऐ.एस्.प्रति बहुन्यूनाः एव आकृष्टन्ते इत्यपि सर्वकारैर्सूचितम्। ऎ.एस्.संस्थायाः केषाञ्चन सजीवप्रवर्तकान् आरक्षकैः बन्धिताः इत्यपि केन्द्र आभ्यन्तरसहमन्त्रिणा हरिभाय् चौदर्या सूचितम्।

मस्तिष्कभोजी अमीबा - एकः बालः मृतः।

कोच्ची - मस्तिष्के अमीबा इति एककोशजीविनः प्रवेशेन गुरुतरावस्थां प्राप्तः बालः मरणम् उपगतः । आलप्पुष़ा जिल्लायां तिरुमला उम्माप्परम्प् गृहे नवासस्य पुत्रः अक्बरः (१६) एव मृतः । 
मित्रैः सह तटाके स्नानं कुर्वति एव अक्बरस्य मस्तिष्कं प्रति अमीबाप्रवेशनं जातम् । असह्यमानया शिरोवेदनया आलप्पुष़ा मेडिक्कल् कोलज् आतुरालये अनन्तरम् आस्टर् मेडिसिटी इति वैयक्तिकातुरालये च प्रविष्टः चेदपि मृत्युरभवत् ।
नग्लेरिया फौलेरी इत्याख्या अमीबा नासाद्वारेणैव मस्तिष्कं प्रविष्टा। शरीरे प्रविष्टे रोगाणुनाशनं दुस्साध्यमिति अभिज्ञाः वदन्ति ।

मल्यावर्यस्य किङ्फिषर् हौस् मन्दिरस्य सघोषविक्रयः पराजितः।

मुम्बई >  प्रवर्तनरहितायाः किङ्फिषर् एयर् लैन्स् संस्थायाः आस्थानमन्दिरं सघोषविक्रयेण विक्रेतुं बाङ्कसंघस्य प्रयत्नः पराजितः । गतदिने सम्पन्ने इलक्ट्रोणिक् सघोषविक्रये  यस्य कस्यापि भागभागित्वं नाभवत् । राष्ट्रात् पलायितेन मदिराव्यापारिणा विजयमल्ल्येन विविधवित्तकोशेभ्यः प्रतिदीयमानानि ऋणानि प्रत्याहर्तुमेव तस्य स्थावरद्रव्यानि सघोषविक्रयणाय एवं उद्यमः आरब्धः।

Thursday, March 17, 2016

क्वथिता वैतरणी इव ' पिके ' नदी
 पेरु >पुराणप्रतिपादिता वैतरणीनदी दृष्टा। पेरू राज्ये विद्यमाना पिके नामिका नदी ता दृशा भवति । क्वथिता अस्याः तापमानः नवति (९०) डिग्री सेल्ष्यस् पर्यन्तं भविष्यति। कर्ण-कर्णिकया श्रुतपरिचिता इयं नदी आन्ट्रो रुसो नामकेन पेरू देशीयेन एवI आमसोण् विपिनस्य समीपे एव प्रवहति एषा पिके। पुकल्पा नगरतः १७२ (द्विसप्तत्यधिकशतम्) किलोमीट्टर् दूरे एव अस्याः स्थानम् । नद्याः पञ्चाशत्‌ किलोमीट्टर् परिधौ जनावासः नास्ति। अत्युष्णजलम् इत्यनेन जलजीविनः अत्र न सन्ति। केवलं नव (९)किलोमीट्टर् दीर्घा इयं भौमोर्जेन एव एतादृशरीत्या तपति इति वैज्ञानिकानां मतम् । आमसोणस्य हस्तरेखा इव वर्तमाना पाषिट्ट् नद्याः सङ्गमेन इयं शन्ता भविष्यति।
आधारपत्रिका लोकसभायां पुनरपि अङ्गीकृता।

नव दिल्ली > विपक्षदलीयानां कोलाहलानां मध्ये आधारपत्रिका लोकसभायां शासकीयदलेन पुनरपि अङ्गीकृता। राज्यसभया निर्दिष्ठाः भेदनिर्देशाः निर्वाचनेन निवार्य एव आसीत् नूतनपत्रिकायाः अङ्गीकारः । विपक्षिदलानां प्रतिषेधान् विगणयन्नेव आसीदियं  प्रक्रिया । आधारः निर्बन्धितरूपेण मा भवतु इति सर्वोच्चन्यायालयेन पूर्वम् अनुशासितः आसीत् ।

पञ्चशत औषधानपि केन्द्रसर्वकारैः निरोधितः।

नवदिल्ली> सुरक्षाभावात् गुणाभावात् च पञ्चशताधिकानि औषधानि आपणेषु निरोधितानि। केषाञ्चन प्रतिरोधौषधानि मधुमेहस्यौषधानि च तेषु अन्तर्भवन्ति। विपणिषु सुरक्षितौषधानां प्राप्त्यर्थं केन्द्रसर्वकारैः क्रियमाणस्य प्रयत्नस्य फलादेव औषधनिरोधनमिति आरोग्यमन्द्रालयेन सूच्यते। ६००० औषधानां परिशोधना अधुना प्रचलन्नस्ति । तेषु सहस्राणां औषधानां मिश्रणे अशास्त्रीयवस्तूनां प्रयोगः दृष्टः इत्यस्मादेव परीशोधना सर्वकारैः दृढीकृता।

पेट्रोल् डीसल् मूल्यवर्धनम्। 

नवदिल्ली - पेट्रोल् डीसल् इन्धनयोः मूल्यं तैलसंस्थाभिः क्रमातीतया वर्धितम् । पेट्रोल् तैलस्य ३.०७ रूप्यकाणि डीसल् तैलस्य १.९० रूप्यकाणि च संवर्धितानि । अन्ताराष्ट्रियतैलमूल्यं इदानीं नितरां न्यूनमपि भारतीयतैलसंस्थानां अयं क्रियाविधिः प्रतिषेधाय कारणमभवत्।

 मैसूरु वायुमलिनीकरणं न्यूनीकृतं चतुर्थं नगरम् ।

मैसूरु - वायुमलिनीकरणं न्यूनातिन्यूनतमेषु आगोलनगरेषु मैसूरुनगरस्य चतुर्थं स्थानमस्ति। इन्ड्याटैम्स् . कोम् इत्यनया अन्तर्जालिकया कृते पठने एव इयं सूचना। ८४.०९ % भवति अत्रत्यः शुद्धवायोः मानम्। प्रथमदशनगरेषां पट्टिकायां केरलस्य कोल्लं नगरमपि अन्तर्भवति। ७९.१७ %अस्ति अत्र शुद्धवायोः मानम्। पट्टिकायां प्रथमस्थानमावहति कानडा राष्ट्रस्य वैट् होर्स् नगरम्। अत्र  १००% शुद्धवायुरस्ति ।

Wednesday, March 16, 2016

सिरियातः रप्यायाः सेना प्रत्यागच्छाति

 मोस्को> सिरियातः भागिकतया रष्यायाः सैनिकान् प्रतिनिवर्तयितुं राष्ट्रपतिः व्लाडिमिर् पुटिन् महाभागः निरदिशत्। सिरियायां शान्तिं संस्थापयितुं कृतेषु प्रयत्नेषु सहायकः अयं निदेशः इति पुटिन् महाभागेन उक्तम्।
किन्तु कति सैनिकाः इदानीं सिरियायां सन्तीति अनेन महोदयेन नोद्घाटितः ।

सेप्तंबर् ४ - माता तेरेसा विशुद्धा भविष्यति ।

वत्तिक्कान् सिटि>निरालंबानाम् अम्बा इति विख्याता मदर् तेरेसा सेप्तंबर् ४ दिनाङ्के फ्रान्सिस् मार्पापा वर्यात् विशुद्धपदं प्राप्स्यते। जीवनकाल एव परिशुद्धा इति विशेषणं प्राप्तवत्याः तस्याः परिशुद्धस्थानाय पाप्पावर्यस्य अनुमतिः लब्धा। रोमानगरे प्रख्यापनकार्यक्रमं प्रतीक्षते । कोल्कत्तायां कृतज्ञताप्रकाशनकार्याणि च अनुवर्तन्ते।


लोकेषु भीतिं प्रसार्य वित्तकोश चौर्यम्।

धाक्क> अन्तर्जाल-वित्तकोश सौकर्यमुपयुज्य बङ्ग्लादेश राष्ट्रस्य केन्द्र-वित्तकोशात्‌ ६८० कोटि रुप्यकाणि अमुष्णत् ।  अन्तर्जालमोषणेन खिन्नः वित्तकोशाध्यक्षः अतीउ रह्मान् त्यागपत्रं दत्तवान्। वित्तकोश चौर्येषु बृहत्तमम् आसीदिदम्। कश्चन राज्यस्य केन्द्रकोशः इदं प्रथमतया एव एतादृश मार्गेण चोरितः इति धनमन्त्रिणा ए.एम्.ए मुहित् वर्येण उक्तः। 

Tuesday, March 15, 2016

आरक्षणे पुनरीक्षणम् नास्ति। अनुवर्तमाना स्थिति: अनुवर्तिष्यते- जेट्ली।

नवदिल्ली > श्रमिक-शैक्षिक मण्डलेषु इदानीं अनुवर्तमाना आरक्षणस्थितिः अनुवर्तिष्यते इति केन्द्र वित्तमन्त्रिणा अरुण् जेट्ली महाभागेन उक्तम्। राज्यसभायां बि.एस्.पि सामाजिकानां प्रश्नानाम्  उत्तरं दत्वा सः प्रतिस्पन्दीकृतवान्। आरक्षणविषये परिवर्तनं रोधनं वा अधिकृत्य इत.पर्यन्तं कापि चर्चा न कृता सर्वकारेण इति केन्द्रमन्त्रिणा मुक्त्तार् अब्बास् नख्वी वर्येण च उक्तम्।

लोलातिलोलः काचः 

मेल्बण् > विश्वस्य लोलातिलोलः काचः (Lens) ओस्ट्रेलियायाः वैज्ञानिकैः अन्विष्य दृष्टः। केशात्‌ द्विसहस्रलघुतमः इति अस्य का चस्य वैशिष्ट्यः। 'नानो' विद्यायां नूतनान्दोलनंकर्तुं पर्याप्ता इयं विद्या।
ओस्ट्रेलियायाः राष्ट्रिय-विश्वविद्यालयस्य वैज्ञानिकस्य युरूयु लारि लु वर्यस्य नेतृत्वे कृतश्रमे एव नूतनं दर्शनम् । ६.३नानोमीट्टर् मितः अस्य वैशिष्ट्यः वृत्ताकारे परिवर्तयितुं शक्यते इत्येव। भाविनिकाले सङ्गणकयन्त्राणां दूरदर्शनानां च फलकम् निश्चयेन वक्री कर्तुं गोलीकर्तुं च शक्यते अस्माकं सैकर्याय इति आश्वासदायकः विषयः।

Monday, March 14, 2016

अखिल-केरळवेदप्रघोषण सम्मेलनं सम्पूर्णम् ।

कालटी > प्रञ्चम्या अखिल -केरळ-वेदप्रघोषण-सम्मेलनम् ह्यः सम्पूर्णताम् प्राप। अशीति (८० ) संख्यकाः वेदपण्डिताः पञ्चसप्तति (७५) संख्यकाः वेदविद्यार्थिनः च अस्मिन् मेलने भागभाजः अभवन्। केरलेषु विद्यमानेषु वेदविद्यापीठेषु पठन्तः छात्राः ऐते। केरलशैल्यां द्राविडशैल्यां च वेदाध्ययनं कृतवन्तः छात्राः वेदचतुष्टयात्‌ संहितां पठित्वा देवताप्रीत्यर्थं समर्पितवन्तः।
प्रभाते दशवादने श्रृङ्गेरिमठस्य शासकेन डा. वि.आर्.  गौरीशङ्कर् महोदयेन सम्मेलनम् उद्घाटनं कृतम्। सायं चतुर्वादने सम्पन्ने समादरणसभायां तैक्काट् वैदिकः केशवन् नम्पूतिरि महोदयः प्रशस्तिपत्रेण २५००० रुप्यकाणां लघुभाण्डेन च सम्मानितः। केरलस्य ऋग्वेदपण्डितेषु प्रथमगणनीयः भवति एषः। केरळे आयोज्यमानेषु यज्ञेषु एषः बहुवारम् आचर्यत्वेन स्वीकृतः आसीत्।

 पाक् अधीनेषु काश्मीरेषु चीनासैनिकानां सान्निध्यम्।

श्रीनगरम् > पाकिस्थानेन अधिनिवेशितकाश्मीरेषु चीना राष्ट्रस्य पीप्पिल् लिबरेषन् आर्मि सैनिकान् अपश्यन् इति विज्ञप्तिः। अतः सीम्नि सुरक्षा वर्धिता। नौगां सेक्टर् परिसरे चीनायाः उन्नतसैनिकोद्योगिनः दृष्टः इति च भारतीय-सैनिकैः विज्ञापितः। किन्तु नियन्त्रित रेखायां स्थानीय सौकर्यान् वर्धियितुमेव ते अगताः इति पाकिस्थानेन कृतम् 'भाष्यम्'' | गतदिने जम्मू-कश्मीरस्य पान् गोङ्‌ तटाक पर्यन्तं निलीयागतः चीनासैनिकाः इन्दो-टिबट्टन् सेनया पालायिताः आसन्।