OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, January 10, 2026

 राज्यवार्ता - केरलम्। 

शबरिगिरि सुवर्णस्तेयः

देवस्य पितृस्थानीयः 'तन्त्री' निगृहीतः; कारागारे बद्धः। 

राजीवर् कण्ठरः। 

अनन्तपुरी> शबरिगिरि सुवर्णस्तेयप्रकरणे  शबरिगिरीशस्य पितृस्थानीयः इति परिकल्प्यमानः क्षेत्रस्य तन्त्रिपदीयः कण्ठर राजीवरः   सविशेषान्वेषणदलेन निगृहीतः; १४ दिनानि यावत् कारागारे बद्धः च। शुक्रवासरे प्रत्युषसि परिपृच्छार्थम् अनन्तपुरीं प्रति आमन्त्र्य पञ्च होराणां परिपृच्छानन्तरमासीत् निग्रहणम्। 

  मन्दिरस्य सुवर्णफलकानां विश्लेषणम् आचारोल्लङ्घनमिति ज्ञात्वा   तन्त्री तदर्थम् आनुकूल्येन व्यवहृतवान्, प्रथमापराधी उण्णिकृष्णन् पोट्टी इत्यस्मै मौनानुज्ञां दत्वा गूढालोचनायां भागं कृतवान्, सुवर्णफलकविश्लेषणे देवात् अनुज्ञालाभाय तान्त्रिकव्यवहारं कमपि न कृतवान् इत्याद्यपराधाः तन्त्रिणः उपरि आरोपिताः सन्ति। 

  प्रकणेSस्मिन्  देवस्वसंस्थायाः षट्  भूतपूर्वाधिकारिणः अभिव्याप्य ११ जनाः निगृहीताः सन्तः कारागारे बद्धाः सन्ति।

 गासायाम् इस्रयेलस्य आक्रमणं - १३ मरणानि। 

दय्र् अल् बिलाह्> गासायां सर्वत्र इस्रयेलेन कृते आक्रमणे १३ जनाः हताः। तेष्वेकः बालको भवति। वर्तमानीनं युद्धविरामं निरीक्षितुं यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः 'बोर्ड् ओफ् पीस्' नामकसमित्याः रूपीकरणे उत्सुकः अस्ति। अत्रान्तरे एवेदम् आक्रमणम्। युद्धविरामानन्तरं प्रवृत्तेषु इस्रयेलाक्रमणेषु चतुश्शताधिकाः पालस्तीनीयाः हताः इति अधिकारिभिः प्रस्तुतम्।

 वैचारिकव्यक्ततायै न्यायशास्त्राध्ययनम् अनिवार्यं - हरि ब्रह्मेन्द्रानन्द तीर्थस्वामिनः। 

चेम्मण्टायां समारब्धा न्यायशास्त्रकार्यशालां हरि ब्रह्मेन्द्रानन्द तीर्थस्वामिनः उद्घाटयति।

तृश्शूर्> लौकिकं वा आत्मीयं वा चर्च्यमानविषयाणां पूर्वापरप्रस्तावान् कार्यकारणसहितं विज्ञातुं न्यायशास्त्राध्ययनं सहायकं भविष्यति, तस्मादेव उत्तमं विषयज्ञानम् अस्माभिः लभते इति उत्तरकाश्याम् आदिशङ्करविद्यापीठस्य आचार्यः हरि ब्रह्मेन्द्रानन्द तीर्थस्वामिनः प्रस्तुतवन्तः। नवदिल्लीस्थस्य भारतीय तत्त्वशास्त्रानुसन्धानकेन्द्रस्य साह्येन केन्द्र संस्कृतविश्वविद्यालयस्य संस्कृतभारत्याः च आभिमुख्ये चेम्मण्टा शारदागुरुकुले आयोज्यमानायाः कार्यशालायाः उद्घाटनकार्यक्रमे भाषमाणाः  आसन् स्वामिनः। 

  गुरुकुले भारतीयशास्त्राणाम् अध्ययनानुसन्धानानाम् अंशतया प्रवृत्तमानायां कार्यशालायां भारतस्य भिन्नराज्येभ्यः ३५ अध्येतारः भागं कुर्वन्ति। डो देवः, प्रफ. सुब्रह्मण्य अय्यरः, डो विजयराघवः, डो टि एस् विजयः इत्येते कक्ष्याः चालयन्ति। 

  उद्घाटनकार्यक्रमे केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवायूर् परिसरनिदेशकः डो के के षैनः अध्यक्षतामवहत्। शारदागुरुकुलस्य कार्यदर्शी न्यायवादी टि के मधुः आमुखभाषणमकरोत्। डो श्रीधरराजः, पि एन् श्रीराम‌ः इत्यादयः प्रभाषणमकुर्वन्। कार्यशालेयं जनवरी १३ तमे दिनाङ्के समाप्स्यते।

 इराने प्रक्षोभः प्रोज्वलति। 

मरणानि ६२ अभवन्। 

अन्तर्जालः निरुद्धः। 

इराने प्रवृत्तमानः प्रक्षोभः। 

टेह्रान्> १९७९ तमे वर्षे इस्लामिकान्दोलनकाले देशभ्रष्टः इरानीयस्य षा राजवंशस्य वर्तमानकालीनः किरीटाधिकारी रिसा पह्लवी नामकेन प्रतिषेधन्दोलनाय सहयोगे उद्घोषिते इराने प्रक्षोभः प्रोज्वलति। ६२ जनाः अद्यावधि मृत्युमुपगताः इति केनचन मानवाधिकारसंघटनेन निगदितम्। 

  प्रतिषेधे व्याप्ते राष्ट्रे अन्तर्जालीयसेवाः अन्ताराष्ट्रियदूरवाणीसंबन्धाः च निरुद्धाः। प्रतिषेधान् अभिभावयितुं पूर्वसिद्धतारूपेणैव अन्तर्जाल-दूरवाणीनिरोधः इति सूच्यते। प्रतिषेधानां पुरतः आत्मसमर्पणं न शक्यमिति आयत्तोल्ला खमीनी स्पष्टीकृतवान्।

 पाकिस्थानेन कुमारीकुमाराः रहस्यान्वेषणाय उपयुक्ताः।

  पत्तान् कोट्> पाकिस्थानस्य रहस्यान्वेषणसंस्थया (ऐ एस् ऐ) द्वारा कुमारीकुमाराः गुप्तान्वेषणाय नियुक्ताः इति आवेदनम्। उपचत्वारिंशत् कुमारीकुमाराः एवं निरीक्षणे सन्ति। १४-१७ वयसामन्तर्गताः एव एवम् ऐ एस् ऐ गणस्य हस्ते पतितेषु अधिकाः। एतान् कौमारगणान् उपयुज्य भारतस्य सुरक्षासैनिकानां चलनानि गृहीतुम् ऐ एस् ऐ दलेन प्रयतते इति सुव्यक्तम् अभवत् । जम्मुकाश्मीरस्य सांब जनपदात् १५ वयस्कः भारतसेनया गतसप्ताहे गृहीतः आसीत्। बालेन सैनिककेन्द्रस्य केषांचन भागानां चित्राणि चलदूरवाण्यां गृहीतानि इति दृष्टानि। भारतसेनया घटनामधिकृत्य अन्वेषणं समारब्धम् ॥

Friday, January 9, 2026

 राज्यवार्ता - छत्तीसगढः। 

२८ मावोवादिनः आत्मसमर्पणं कृतवन्तः। 

सुक्मा> छत्तीसगढे सुक्माजनपदे ६५ लक्षं रूप्यकाणि शिरोमूल्यम् उद्घोषितान् १३ जनान् अभिव्याप्य २६ मावोवादिनः सुरक्षासेनायाः पुरतः आत्मसमर्पणं कृतवन्तः। तेषु  सप्त जनाः महिलाः भवन्ति।  आत्मसमर्पणं कृतवद्भ्यः सर्वकारस्य पुनरधिवासयोजनामनुसृत्य ५०,००० रूप्यकाणि प्रति जनं साहाय्यराशिं लभन्ते।

 रष्यायाः तैलेन्धनं क्रियते चेत् 

शुल्कः ५००% भविष्यति। 

उपरोधविधेयकाय ट्रम्पस्य अङ्गीकारः। 

भारताय प्रतिकूलः। 

वाषिङ्टणः> यानि राष्ट्राणि रष्यायाः तैलेन्धनं क्रियन्ते तेभ्यः आयातशुल्करूपेण ५००% वर्धनं कारयिष्यतीति डोनाल्ड ट्रम्पः प्रस्तुतवान्। एतदर्थं रिपब्लिकन् सदस्येन लिन्ड्सि ग्रहामेन आनीतम् उपरोधविधेयकं ट्रम्पेन अङ्गीकृतम्। 

  रूसीयेन्धनं क्रीयमाणेषु राष्ट्रेषु द्वितीयस्थानं ऊढमानाय भारताय एषः प्रक्रमः प्रतिकूलाय भविष्यति। चीनः भवति रष्यायाः बृहत्तमः तैलेन्धन उपभोक्ता। न्यूनतरमानेन रूसीयेधनक्रयं क्रियमाणानि भारतं-चीन-ब्रसीलादिराष्ट्राणि क्रयात्  निराकर्तुं प्रेरयतीति विधेयकस्य लक्ष्यम्।

 प्रकृतिसंरक्षकः माधव गाड्गिलः यशश्शरीरः।


 मुम्बई> प्रकृतिसंरक्षणार्थं मनः वपुश्च समर्प्य प्रकृतिद्रोह्ं  विरुध्य कलहं कृतवान्  पर्यावरणशास्त्रज्ञः माधव धनञ्जय गाड्गिलः बुधवासरे रात्रौ पूनैय्यां दिवंगतः। ८३ वयस्कः सः कतिपयकालेन परिचर्याविधेयः आसीत्। 

  ग्रामीणगोत्रविभागेषु  जीवयापनं कृतवान् माधव गाड्गिलः तैः सह व्यवहृत्य गोत्रपारम्पर्यस्य अगाधं याथार्थ्यमवगतवान्। अत एव तस्य जीवनं प्रकृतिसंरक्षणाय समार्पयत्। 

  १९८१ तमे पद्मश्री, २००६ तमे पद्मविभूषणं, २०२४ तमे संयुक्तराष्ट्रसभायाः 'Champion of Earth' इत्यादयः राष्ट्रिय-अन्ताराष्ट्रियपुरस्कारैः  सः समादृतः।

Thursday, January 8, 2026

 ऊन १९ एकदिनक्रिकट्

परम्परां स्वायत्तीकृत्य भारतम्।

आरोण् जोर्ज्, सूर्यवंशी इत्यनयोः शतकप्राप्तिः।

आरोण् जोर्जः [वामे], वैभवश्च। 

बेनोनी>  दक्षिणाफ्रिकां विरुध्य ऊननवदशवयस्कानाम् एकदिनक्रिकट्

परम्परायाः अन्तिमस्पर्धामपि विजित्य भारतं परम्परां स्वायत्तीकृतवत् [३ - ०]। भारतदलस्य नायकः वैभवसूर्यवंशी, केरलीयः आरोण् जोर्जः च शतकं प्राप्तवन्तौ। २३३ धावनाङ्कानाम् उज्वलविजय एव भारतेन संप्राप्तः। नायकः वैभव सूर्यवंशी ७४ कन्दुकेभ्यः १२७ धावनाङ्कान् सम्पादितवान्। प्रारम्भक्रीडकरूपेण ताडनं कृतवान् आरोण् जोर्जः १०६  कन्दुकेभ्यः ११८ धावनाङ्कान् सम्प्राप्तवान्। 

  प्राप्ताङ्कसूचिका - भारतं ५० क्षेपणचक्रेषु ३९३/७। दक्षिणाफ्रिका ३५ क्षेपणचक्रेषु १६० धावनाङ्कैः सर्वे बहिर्नीताः।

 ग्रीन् लान्डं लक्ष्यीकृत्य अमेरिकायाः प्रक्रमः। 

वाषिङ्टणः> वेनस्वेलायां यू एस् राष्ट्रस्य सैनिकप्रक्रमस्य अनन्तरं विश्वस्मिन् बृहत्तमं द्वीपं ग्रीन् लान्डं स्वायत्तीकर्तुं  यत्नः यू एस् राष्ट्रेण प्रबलीक्रियते। यूरोपीयराष्ट्रस्य डेन्मार्कस्य अधीने वर्तमानः स्वयंशासनप्रदेशः भवति ग्रीन् लान्डः। एनं करस्थीकर्तुमुद्दिश्य डोनाल्ड ट्रम्पः चर्चां करोति, अवश्यं चेत् सैनिकप्रक्रमः अपि परिगण्यते इति च 'बी बी सी' माध्यमेन वृत्तान्तीक्रियते। 

  यू एस्, यूरोप्, रष्या इत्येतेषां मध्ये अस्ति ग्रीन् लान्डस्य स्थानम्। यू एस् तः ५००० कि मी दूरे उत्तर अत्लान्टिकसमुद्रे वर्तते। इतः रष्यामपि एतावद्दूरमस्ति। रष्यातः आक्रमणं भविष्यति चेत् यू एस् राष्ट्रस्य प्रत्याक्रमणाय अनुयुक्तं स्थानमिति ग्रीन्लान्डस्य प्राधान्यम्।

 पञ्चसु राज्येषु निर्वाचनाय सिद्धता समारब्धा। 

नवदिल्ली> मेय्मासस्य सप्तमदिनाङ्कात् पूर्वं विधानसभानिर्वाचनानि विधातुं राष्ट्रिय निर्वाचन आयोगेन पर्यालोचना  समारब्धा। केरलं, तमिलनाट्, पोण्टिच्चेरी, पश्चिमवंगः, असमः इत्येतेषां राज्यानां मुख्यनिर्वाचनाधिकारिभिः सह [CEOs] केन्द्र उपनिर्वाचनायोगः चर्चां कृतवान्। निर्वाचनस्य पूर्वसिद्धतां पुरस्कृत्य आसीत् चर्चा। 

केरले एप्रिल् मासे द्वितीयसप्ताहे निर्वाचनं विधातुं साध्यता वर्तते। फेब्रुवरिमासस्य प्रथमसप्ताहे  मुख्यनिर्वाचनायोगः ग्यानेष् कुमारः, आयोगौ डो  सुखविन्दर् सिंह सन्धुः, डो विवेक जोशी च पञ्चसु राज्येषु पर्यटनं करिष्यन्ति।

Wednesday, January 7, 2026

 बङ्गलादेशे पुनः न्यूनपक्षजातीयः    हतः। 

धाक्का> बङ्गलादेशे पुनः न्यूनपक्षजातीयः  संघहत्याविधेयः अभवत्। नर्सिङदि नगरे नित्योपयोगवस्तूनि विक्रियमाणः आपणिकः मोणी चक्रवर्तीनामकः  हिन्दुजातीयः एव सोमवासरस्य रात्रौ अज्ञातसंघस्य छुरिकाप्रयोगेण हतः। अपराधिभ्यः रक्षिपुरुषैः मार्गणमारब्धम्। 

  जसोर् जनपदे प्रादेशिकदिनपत्रस्य प्रकाशकं व्यापारिणं च हिन्दुयुवकं भुषुण्डिप्रयोगेण हननस्य होराणामाभ्यन्तरे आसीदियं हत्या प्रवृत्ता। एकमासाभ्यन्तरे बङ्गलादेशे हत्याविधेयः पञ्चमः हिन्दुधर्मीयः भवति मोणी चक्रवर्ती। षेख् हसीनायाः प्रशासनपतनानन्तरं न्यूनपक्षवंशीयान् विरुध्य आक्रमणानि वर्धन्ते एव।

 इराने प्रक्षोभः - मृत्युसंख्या ३५।

दुबाय्> मूल्यवर्धनं, रियालस्य मूल्यशोषणम् इत्यादिभिः कारणैः सप्ताहाधिकं यावत् इराने सम्पद्यमाने प्रशासनविरुद्धप्रक्षोभे अद्यावधि ३५ जनाः हताः। यू एस् आधारीकृत्य प्रवर्तमानं मानवाधिकारसंघटनं 'ह्यूमन् रैट्स् आक्टिविस्ट्स्' [Human Rights Activits'] नामकेनैव इयं गणना। प्रक्षोभस्य आधारेण १२०० जनाः निगृहीताश्च। 

  इरानस्य ३१ अंशेषु २७ संख्याकेषु प्रक्षोभः व्यापृतः। २५० स्थानेषु प्रतिषेधान्दोलनानि प्रवृत्तानीति संघटनेन निगदितम्। २५० रक्षिपुरुषाः    प्रतिषेधकैः सह प्रतिद्वन्द्वे व्रणिताः इति च सूच्यते।

 दिल्ली मेट्रो सेवकनिवासे अग्निबाधा - त्रयः मृताः।

नवदिल्ली> 'दिल्ली मेट्रो रेल् कोर्परेषन्' संस्थायाः वृत्तिकराणां निवासस्थाने [Staff Quarters] दुरापन्नायाम् अग्निबाधायां त्रयः दग्धाः। उत्तरपश्चिमदिल्ल्याम्  आदर्शनगरे मज्लिस् पार्क् मेट्रो निस्थानस्य समीपं वर्तमाने वृत्तिकावासस्य पञ्चमश्रेण्यां कुजवासरे प्रत्युषसि  आसीत् अग्निबाधा। अजय विमल् [४२], नीलम् [३८], तयोः पुत्री जान्वी [१०] इत्येते मृत्युमुपगताः।

 राज्यवार्ताः - दिल्ली।

सोणियागान्धी आतुरालयं प्रवेशिता।


नवदिल्ली> कोण्ग्रस् दलस्य विचारसभानेत्री सोणियागान्धी गंगाराम् आतुरालयं प्रवेशिता। दिल्ल्यां पर्यावरणमलिनीकरणतीव्रतया कठिनेन कासेन पीडिता अस्ति सोणिया इति सूच्यते। किन्तु तस्याः स्वास्थ्यविषये आशङ्का नास्तीति आतुरालयाधिकारिभिः निगदितम्।

 केरलीयछात्राः 'रोबोटिक् अध्ययनम्' आरब्धवन्तः।


अनन्तपुरी> केरले दशमकक्ष्याछात्राः ऐ टि परिशीलनस्य अंशतया यन्त्रमनुष्यविज्ञाने [Robotic study] अध्ययनमारब्धवन्तः। सर्वकारीय-साह्याधिष्ठितनिजीयविद्यालयेषु [Govt & Aided schools] सार्धचतुर्लक्षं विद्यार्थिनः अस्मिन् परिशीलने भागं कुर्वन्ति। 

  दशमकक्ष्यायां नूतने ऐ टि पाठपुस्तके रोबोटिक्स् पाठाः विद्यन्ते। तेषां प्रायोगिकं परिशीलनं दातुं लक्ष्यमाणा सप्ताहद्वयात्मिका शिल्पशालायाः उपायकल्पलं कृतमिति  'कैट्' इति ऐ टि परिशीलन संस्थायाः अधिकारी अन्वर् सादत्तवर्यः निगदितवान्। विद्यालयेषु वर्तमानानां 'लिटिल् कैट्स् समितीनां' नेतृत्वे सन्ति परिशीलनशिल्पशालाः।

 राज्यवार्ताः - केरलम्।

भूतपूर्वमन्त्री इब्राहिं कुञ्ञ् दिवंगतः। 


कोच्ची> केरलस्य भूतपूर्वः मन्त्री मुस्लींलीग् इति राजनैतिकदलस्य नेता च इब्राहिं कुञ्ञ् गतदिने दिवंगतः। ७३ वयस्कः सः कतिपयदिनेभ्यः रोगबाधया आतुरालये परिचर्यायामासीत्। 

  एरणाकुलं जनपदस्थात् मट्टाञ्चेरी, कलमश्शेरी मण्डलद्वयात् वारचतुष्टयं विधानसभासदस्यरूपेण चितः इब्राहिं कुञ्ञः दशवर्षाणि मन्त्रिस्थानं च अवहत्। तस्य अन्त्यशुश्रूषाः अद्य सम्पत्स्यते।

Tuesday, January 6, 2026

 बङ्गलादेशे माध्यमप्रवर्तकः भुषुण्डिमारितः। 

धाक्का> प्रेशिकदिनपत्रिकायाः सक्रियमाणः प्रकाशकः [Acting Editor] कर्मशालास्वामी च युवकः राणा प्रतापनामकः [४५] जषोरजनपदे अज्ञातैः भुषुण्डिप्रयोगेण मारितः। सोमवासरे आसीदियं दारुणघटना प्रवृत्ता। 'बिडि खोबार्' इति प्रादेशिकदिनपत्रिकायाः अधिपः अयं कोपालिया विपणिनगरे Pratap Ice Factory' इति कर्मशालास्वामी च अस्ति। अस्य नाम्नि बहूनि अपराधप्रकरणानि आसन्, सर्वेषु तेषु निरपराधत्वेन विमोचितः आसीदिति पत्रिकायाः वार्ताप्रकाशकः अब्दुल् कासिम् इत्यनेन प्रोक्तम्।